Book Title: Siddhadandikastav Author(s): Atmanand Sabha Publisher: Atmanand Sabha View full book textPage 2
________________ सिद्धदण्डिका ॥ १॥ 99906099999999999 ॥ प्रस्तावना ॥ इह हि जगद्भुत जैनशासनबद्धानुरागभव्याङ्गिगणमागमगुम्फितातिगम्भीर ज्ञेय हेयोपादेयामेय पदार्थ सार्थसार मवगमयितुकामैरुपकृतिकरणककरुणारसनिमद्ममानसैः श्रीमदृहद्गच्छस्यैवा जीवित विहितातिदुष्कराचाम्लतपसा तपगच्छ इति नामान्तरमासादितवतां चित्रकूट (चित्तौड ) महीमहेन्द्रोपलब्ध 'हीरेति' विरुदानां विश्वविख्यातविशद कीर्तिश्रीमज्जगचन्द्रसूरीन्द्राणां विनेयवर्गाप्रेसरः श्रीमद्देवेन्द्रसूरिभिरनेकानि प्रकरणादीनि सदृब्धानि वरीवृत्यन्ते तेष्वन्यतममिदं सिद्धदण्डिकास्तवाभिधानं प्रकरणम् । इह च प्रकरणकारः श्रीनाभेयवंशजानां त्रिखण्डाधिपानां भूभृतां सिद्धिगतानां सर्वार्थगतानां च सम्यक्तया संख्योद्घाटनं स्पष्टतया प्रकटीकृतम् । एते सूरिशिरोमणयः कदा कतमं महीमण्डलं मण्डयामासुरिति पर्यालोचनायां प्रवृत्तायाम् - श्रीमन्मुनिसुन्दरसूरिपादप्रणीतगुर्वावलीविलोकनेन विक्रमीय सप्तविंशत्यधिकत्रयोदशशततमान्देऽमीषां स्वर्गारोहणं निर्णीयते, अतस्तेषां कालमानं निर्विरोध विक्रमीयत्रयोदशशताब्दीयं ज्ञायते । स्तवस्यास्य मूलपाठपुस्तकानि चत्वारि समासादितानि सटिप्पणीकं चैकं विश्वविख्यात कीर्त्तिकौमुदीक श्रीमद्विजयानन्दसूरिशिष्यप्रवर्त्तकश्रीमत्कान्तिविजयमुनीनां सकाशत उपलब्धम्, एतत्पुस्तकचतुष्टयाधारेण संशोधितेऽप्यत्र निबन्धे यत्र कचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं घीधनैरित्यभ्यर्थयते - सविनयबद्धाञ्जलिः प्रवर्तक श्रीमत्कान्तिविजयपादपद्मपरागः चतुरविजयो मुनिः ( सुरत ) Printed by B. R. Ghanekar at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay, and Published by Vallabhadas Tribhuvandas Ghandhi, Secretary, Atmanand Jain Sabha, Bhavanagar. 300000 प्रस्तावना ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8