Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 02 Author(s): Jesingbhai Kalidas Trust Publisher: Jesingbhai Kalidas Trust View full book textPage 9
________________ समाद्रियतेऽपि व्यक्ति-प्रसङ्ग-कालविशेषादिपुरस्सरं व्याकरणादि-साधनग्रन्थपरिज्ञानम् । इत्येवं साधुजीवनाधारस्तम्भरूपागमज्ञानान्यथासिद्धानुयोगक्षमतासम्पत्तयेत्रान्तरसाधनरूपेण गीतार्थनिश्रया यथोचितज्ञानाचारमर्यादाष्टक-सम्यकपरिपालनया च व्याकरणादिज्ञानं श्रामण्यफलावहं भवतीत्यतः समावश्यकाध्ययनव्याकरणस्याऽध्येतृणामध्ययनादिसौकर्याय मुद्रयमाणमिमं हि ग्रन्थरत्नं समेऽपि पिपठियवः विद्वद् गुरुजनाभ्यासे विनयविवेक-संयम-सामाचारीपरिपालनापुरः प्रपठेयुः ॥ नहिं गृहस्थपण्डिताभ्यणे जिनशासनमर्यादाभंगरूपेण संयमिसाधुवर्यकक्षालाघवापादनेन स्वैर शब्दज्ञान-भाषाज्ञान-वैदुष्यसम्प्राप्तये संयम-ज्ञानाचारमर्यादाविशकलनारूपपद्धत्येति सुतरां भावदयासम्पृतान्तरमनःस्थितेन जिनशासनोपज्ञोत्तमसंयममर्यादारक्षणाभिप्रायेण निवेद्यते सप्रश्रयं विनीततरभंग्याऽञ्जलिबन्धादिपुरस्सरया समुचितं च समवधारणीयं श्रीमद्भिरऽनवद्यार्यसंयमश्रीराजितसद्गुरुचरणपङ्कज-- भ्रमरायमाणः सज्ज्ञानार्थिभिः मुमुक्षुभिः श्रमणोत्तसेः॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 658