________________
समाद्रियतेऽपि व्यक्ति-प्रसङ्ग-कालविशेषादिपुरस्सरं व्याकरणादि-साधनग्रन्थपरिज्ञानम् ।
इत्येवं साधुजीवनाधारस्तम्भरूपागमज्ञानान्यथासिद्धानुयोगक्षमतासम्पत्तयेत्रान्तरसाधनरूपेण गीतार्थनिश्रया यथोचितज्ञानाचारमर्यादाष्टक-सम्यकपरिपालनया च व्याकरणादिज्ञानं श्रामण्यफलावहं भवतीत्यतः समावश्यकाध्ययनव्याकरणस्याऽध्येतृणामध्ययनादिसौकर्याय मुद्रयमाणमिमं हि ग्रन्थरत्नं समेऽपि पिपठियवः विद्वद् गुरुजनाभ्यासे विनयविवेक-संयम-सामाचारीपरिपालनापुरः प्रपठेयुः ॥
नहिं गृहस्थपण्डिताभ्यणे जिनशासनमर्यादाभंगरूपेण संयमिसाधुवर्यकक्षालाघवापादनेन स्वैर शब्दज्ञान-भाषाज्ञान-वैदुष्यसम्प्राप्तये संयम-ज्ञानाचारमर्यादाविशकलनारूपपद्धत्येति सुतरां भावदयासम्पृतान्तरमनःस्थितेन जिनशासनोपज्ञोत्तमसंयममर्यादारक्षणाभिप्रायेण निवेद्यते सप्रश्रयं विनीततरभंग्याऽञ्जलिबन्धादिपुरस्सरया समुचितं च समवधारणीयं श्रीमद्भिरऽनवद्यार्यसंयमश्रीराजितसद्गुरुचरणपङ्कज-- भ्रमरायमाणः सज्ज्ञानार्थिभिः मुमुक्षुभिः श्रमणोत्तसेः॥