________________
ज्ञानान्यथा सिद्धिनिरूपणाध्वन्या सह संवरनिर्जरांग - भूतत्वं व्याकरणज्ञानस्यानुयोगकरणक्षमतोपलब्धये पारम्परिकहेतुत्वेन निर्देश्यमानं सज्ज्ञानिगीतार्थगुरुचरणेन्दिवरोपासनया सम्यगवबुध्य समे हि व्याकरणं पिपठिषवः पुण्यवन्तो हि मुमुक्षवो जिनशासनसमाराधनालक्ष्यकेन्द्रीभूत मनोवृत्तयो " जे आसवा ते परिसवा " - इत्याचाराङ्गसूत्रप्रघोषितटङ्कशालिवाक्याधारेण प्रायशो मिथ्याज्ञानपरिवर्धनं हिं व्याकरणादिसाधनग्रन्थानां ज्ञानं रसवैद्योपदिष्टपरिकर्मित विषसंपृक्तरसायनादिसेवनं शरीरान्तरशक्तिक्षीणताविनाशकमपि यथा शरीरोपष्टम्भकं भवति, तथा जिनप्रवचनानुयोगसदर्हक्षमतासम्पत्तिद्वाराऽ
वान्तरसाधनसम्पादनरूपेण ज्ञानाचारादिमर्यादानुगुण्येन नितरां गीतार्थमुनिपुङ्गव निरीक्षणसम्प्रेक्षणा पुरस्सरं सम्यगज्ञानभूमिकासम्पादकं भवेदित्यतः मुनिजनानां व्याकरण - न्याय- काव्यालङ्कार - शास्त्रादिज्ञानं मिथ्या श्रुतान्तर्गतमपि साधनग्रन्थरूपेण ज्ञानि - जनपरिगृहीतसापेक्ष बुद्धिसनाथं ल्यापादकप्रवचनानुयोगक्षमतासम्पादकं भवतीत्यतः
सदध्यवसायनैर्म