________________
निरूपितं चानुयोगद्वारसूत्रे हि उपक्रमस्य प्रकारान्तरीयभेदषट्के [सू० ७०] द्वितीयभेदरूपनामभेदावान्तरभेदगतत्रिनाम [सू० १२४] चतुर्णाम [सू० १२५] पञ्चनाम [सू०१२६] दशनाम [सू०१३१] विवरणप्रसंगे व्याकरणगत भाषापरिमार्जन संस्कारितापादनोपयोगि - नानापदार्थानामवबोधस्य परमावश्यकता सम्यग्ज्ञानमूलानुयोगयथार्थभूमिकासम्पत्तये ।
दशनामावान्तर भेदभावप्रमाणगत- सामासिकतद्धित धातु - नैरुक्तिकभेदप्ररूपणावसरे [सू० १३१] चाग्नुयोगद्वारसूत्रकारैर्व्याकरणाध्ययनस्य नितरामुपयोगिता, प्रवचनानुयोगकरणक्षमतालब्धये सूचिता वर्तते ।
विवेचितं चैतत्सूत्राणां व्याख्याप्रसंगे मलधारिश्री हेमचन्द्रसूरिपादैः सम्यग् गुरुगमेन निर्जरांगभूतसम्यग्ज्ञानस्य संवरमूलकत्वापादनायार्हद्वाणीसदनुयोगपरिकर्मणया सद्गुरुचरणोपासनासमुपलभ्यया हितावह निरूपणादिद्वारा |
11
श्री जिनशासन हम्य प्रवेशद्वारवे त्रिसमेऽनुयोग
प्रतिपादित पद्धत्या भाषाकीय
द्वारसत्ररत्ने