________________
० कारक-समासपरिज्ञानम् । ० आख्यातपद्धतिपरिज्ञानम् । ० तद्धित-कृदन्तनिष्पत्तिपरिज्ञानम् ।
नह्यन्यतरक्षतिवता व्याकरणपरिपठनेनाऽपि शास्त्रीयपदार्थविचारक्षमा बुद्धिस्तात्पर्यार्थ निश्चतुं प्रत्यला भवति ।
प्रथमे हि भागे व्याकरणाध्ययनचतुरंगीयांगद्वयसमावेशः सभाता, द्वितीये चास्मिन् विभागेऽत्यन्तमहत्वपूर्णस्य आख्यातप्रकरणस्य समावेशोऽस्ति, तृतीये च विभागे तविधत-कृदन्त प्रकरणं हि वैयाकरणीयानां लज्जासंरक्षकं विविधार्थव्युत्पत्तिसनाथशब्दप्रयोगाक्षयपात्रतुल्यं वर्यमहत्वशालि समुपन्यस्तुमीयते ॥ ___ व्याकरणस्य हि पठनं केवलं शब्दव्युत्पत्तिज्ञानमूलमेव साम्प्रते हि कालेऽभिमन्यते कैश्चिद् , न तत्सुचारु, श्रीअनुयोगद्वारसूत्रगतजिनप्रवचनानुयोगकरणाभिजात्ययोग्यतासम्पत्तये उपक्रमादिमेदचतुष्टयावान्तरप्रकारपरिज्ञानपूर्वकगीतार्थगुरुजनोत्तंसवर्यचरणसेवापरिलभ्यप्रवचनानुयोगस्य सदावश्यकत्वात् ।