________________
प्रान्ते चास्मिन् पुस्तके छामस्थ्यसुलभा याः क्षतयों भवेयुस्तासां शुद्धिपत्रकाधारेण परिमार्जनपूर्व सम्यगगुरुनिश्रयोहापोहसनाथं तत्वज्ञदृष्ट्याऽध्ययनपरिशीलनादिकं कृत्वा श्रामण्यं वर्याध्ययनद्वारा ज्ञानध्याने सत्प्रवृत्ति विधाय गुरुनिश्रया संयमिजीवनपरिकर्मणया सफलयेयुरिति निवेदयति श्रमणसङ्घसेवकः- पूज्योपाध्याय श्रीधर्मसागरगणिवर्यचरणान्तिपद्-पं. अभयसागरसंज्ञसाधूत्तंसकृपाभिलाषुकः ॥
लिखितं च महाव्रतभावनामितशताके (२५००) श्रीवीरनिर्वाणाब्दे मोहनीयस्थानाधिकसमाधि स्थानमितशतप्रमिते २०३१ वैक्रमेऽब्दे आश्विनमासे शुक्लपक्षे षष्ठयां तिथौ सोमवासरे श्री भगवाननगर ( टेकरो) सत्कजैनोपाश्रये पालडीसंज्ञशाखापुरे राजनगरीये ।
॥ शुभं भवतु श्रीसकलसङ्घस्य ॥