Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 02 Author(s): Jesingbhai Kalidas Trust Publisher: Jesingbhai Kalidas Trust View full book textPage 5
________________ विशालातिव्यापकार्थसमृद्धश्रीसिद्धहेमवृहपृत्तिमध्ये - तुमशक्नुवानानां हिताय परमाहतराजर्षिश्रीकुमारपालमहाराज-वैदुष्यपरिकर्मणायै च संक्षिप्तीकृतरचनायाः श्रीसिद्धहेमलघुवृत्तेः शब्दव्युत्पत्तिज्ञानेऽत्यंतोपयोगिनो व्याकरणस्याध्येतृसौकर्यार्थमर्थावबोधजनक-पदच्छेदादिविशिष्टमुद्रणपद्धत्या मुद्रयमाणस्य द्वितीयो ह्ययं भागः सौकर्यकलितमतिपरिकल्पितः । प्रथमे हि सार्धाध्यायद्वयरूपे दशपादात्मके विभागे संज्ञा-सन्धि-पलिंगरूपनिष्पत्तिकारकसमास-तदाश्रयसमवबोधकानि च प्रयोगसमुपयोगीनि सूत्राणि संगृहीतानि, तदाधारेण चाध्येतुरेकांगं हि व्याकरणस्य नाम्नां व्युत्पत्त्यार्थादिसमवबोधरूपं ज्ञानं जायते, परं आख्यातसिद्धिज्ञानं तद्धित-कृदन्तविज्ञानं च विना व्याकरणं नहि सम्पूर्णशाब्दबोधे प्रत्यलं भवति । व्याकरणं हि चतुरङ्गम् तथाहि० सन्धिज्ञानसहितं नाम्नां षड्लिङ्गप्रयोगनिष्पत्ति रूपं हिं ज्ञानम् ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 658