Book Title: Siddha Hemchandrashabdanu Shasanam Part 2
Author(s): Hemchandracharya, Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious

View full book text
Previous | Next

Page 8
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्त्वा - तुमम् भावे 1५1१॥१३॥ एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम्, कारं कारं याति ||१३|| भीमादयोऽपादाने ।५।१।१४ ॥ एतेऽपादाने' स्युः । भीमः, भयानकः ||१४|| संप्रदानाच्चान्यत्रोणादयः | ५|१|१५|| संप्रदानादपादानाच्चान्यत्रार्थे 'उणादयः' स्युः । कारुः कषिः ||१५|| असरूपोऽपवादे वोत्सर्गः प्राकू क्तेः |५|१|१६॥ ३ इतः सूत्रादारभ्य “स्त्रियां क्ति:" [ ५,३,९१] इत्यतः प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप 'औत्सर्गिकः प्रत्ययो वा स्यात् । अवश्यलाव्यम्, अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न स्यात् कार्यम् । प्राक् तेरिति किम् ? कृतिः, चिकीर्षा ॥१६॥ ॠवर्ण व्यञ्जनाद् ध्यण् | ५|१|१७|| ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातो 'र्घ्यण्' स्यात् । कार्यम्, पाक्यम् ||१७|| पाणि - समवाभ्यां सृजः | ५|१|१८|| आभ्यां परात् सृजे 'र्घ्यण् स्यात् । पाणिसर्ग्या, समवसर्ग्या रज्जुः ॥१८॥ उवर्णादावश्यके | ५|१|१९ ॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् 'घ्यण् स्यात् । लाव्यम्, अवश्यपाव्यम् ||१९|| आसु-यु- वपि रपि-लपि-त्रपि - डिपि दभि -चम्यानमः | ५|१|२०|| आङ्पूर्वाभ्यां सुग्-नम्म्यां यौत्यादेश्च 'ध्यण्' स्यात् । आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, अपत्राप्यम्, डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ॥२०॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 375