Book Title: Siddha Hemchandrashabdanu Shasanam Part 2
Author(s): Hemchandracharya, Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious

View full book text
Previous | Next

Page 11
________________ ६ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् देवभूयं गतः । भाव इति किम् ? श्वघात्या सा ॥३६॥ अग्निचित्या |५|१|३७॥ अग्नेः पराः स्त्रीभावे 'क्यप् स्यात् । अग्निचित्या ||३७|| खेय- मृषोये 1५1१1३८॥ एतौ 'क्यबन्ती' साधू स्तः । निखेयम्, मृषोद्यम् ||३८|| कुप्यभिद्योध्य-सिध्यतिष्य- पुष्य-युग्या - ऽऽज्य- सूर्यं नाम्नि |५|१|३९|| एते 'क्यबन्ताः' संज्ञायां निपात्यन्ते । कुप्यं धनम् भिद्यम्, ऊध्यो नदः, सिध्यः, तिष्यः, पुष्यः, युग्यं वाहनम्, आज्यं घृतम्, सूर्यो रविः ॥ ३९ ॥ दृ-वृग् - स्तु - जुषेति-शास: 1५|१|४०|| एभ्यः 'क्यप्' स्यात् । आदृत्यः प्रावृत्यः, अवश्यस्तुत्यः जुष्यः इत्यः, शिष्यः ||४०|| ऋदुपान्त्यादकृपि - वृचः | ५ | १ |४१ ॥ ऋदुपान्त्याद् धातोः कृषि-वृति-ऋचिवर्जात् 'क्यप् स्यात् । वृत्यम् | अकृपिवृदृच इति किम् ? कल्यम्, चर्त्यम्, अर्च्यम् ॥४१॥ कृ-वृषि- मृजि-शंसि - गुहि-दुहि जपो वा |५|१|४२ ॥ एभ्यः 'क्यप् वा' स्यात् । कृत्यम्, कार्यम् वृष्यम्, वर्ष्यम्; मृज्यम्, मार्ग्यम्; शस्यम्, शंस्यम्; गुह्यम्, गोह्यम्; दुह्यम्, दोह्यम्; जप्यम्, जाप्यम् ॥ ४२ ॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के |५|१|४३|| जेर्विपूर्वाभ्यां च पू-नीभ्यां यथासङ्ख्यं हलि-मुञ्ज - कल्केषु कर्मसु 'क्यप्' स्यात् । जित्यो हलिः, विपूयो मुञ्जः, विनीयः कल्कः । हलि-मुञ्ज-कल्क इति किम् ? जेयम्, विपव्यम्, विनेयम् ॥ ४३ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 375