________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
क्त्वा - तुमम् भावे 1५1१॥१३॥
एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम्, कारं कारं याति ||१३|| भीमादयोऽपादाने ।५।१।१४ ॥
एतेऽपादाने' स्युः । भीमः, भयानकः ||१४|| संप्रदानाच्चान्यत्रोणादयः | ५|१|१५||
संप्रदानादपादानाच्चान्यत्रार्थे 'उणादयः' स्युः । कारुः कषिः ||१५|| असरूपोऽपवादे वोत्सर्गः प्राकू क्तेः |५|१|१६॥
३
इतः सूत्रादारभ्य “स्त्रियां क्ति:" [ ५,३,९१] इत्यतः प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप 'औत्सर्गिकः प्रत्ययो वा स्यात् । अवश्यलाव्यम्, अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न स्यात् कार्यम् । प्राक् तेरिति किम् ? कृतिः, चिकीर्षा ॥१६॥
ॠवर्ण व्यञ्जनाद् ध्यण् | ५|१|१७||
ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातो 'र्घ्यण्' स्यात् । कार्यम्, पाक्यम् ||१७|| पाणि - समवाभ्यां सृजः | ५|१|१८||
आभ्यां परात् सृजे 'र्घ्यण् स्यात् । पाणिसर्ग्या, समवसर्ग्या रज्जुः ॥१८॥ उवर्णादावश्यके | ५|१|१९ ॥
अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् 'घ्यण् स्यात् । लाव्यम्, अवश्यपाव्यम् ||१९||
आसु-यु- वपि रपि-लपि-त्रपि - डिपि दभि -चम्यानमः | ५|१|२०|| आङ्पूर्वाभ्यां सुग्-नम्म्यां यौत्यादेश्च 'ध्यण्' स्यात् । आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, अपत्राप्यम्, डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ॥२०॥