________________
-
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आप्लाव्यम् ।।७॥
प्रवचनीयाऽऽदयः 1५1१1८॥ एते अनीयप्रत्ययान्ताः ‘कर्तरि वा' निपात्यन्ते । प्रवचनीयो गुरुः शास्त्रस्य, प्रवचनीयं गुरुणा शास्त्रम्; उपस्थानीयः शिष्यो गुरोः, उपस्थानीयः शिष्येण गुरुः ॥८॥
श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जू-भजेः क्तः ।५।१।९॥ एभ्यः क्तो यो विहितः स 'कर्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः , आश्लिष्टा कान्ता चैत्रेण; अतिशयितो गुरुं शिष्यः; अतिशयितो गुरुः शिष्यैः; उपस्थितो गुरुं शिष्यः; उपस्थितो गुरुः शिष्यैः; उपासिता गुरुं ते, उपासितो गुरुस्तैः, अनूषिता गुरुं ते, अनूषितो गुरुस्तैः; अनुजातास्तां ते, अनुजाता सा तैः; आरूढोऽश्वं सः, आरूढोऽश्वस्तैः; अनुजीर्णास्तां ते, अनुजीर्णा सा तैः, विभक्ताः स्वं ते, विभक्तं स्वं तैः ॥९॥
आरम्भे 1५1१1१०॥ आरम्भार्थाद् धातोभूतादौ यः क्तो विहितः स 'कर्तरि वा' स्यात् । प्रकृताः कटं ते, प्रकृतः कटस्तैः ।।१०।।
__ गत्यर्था-ऽकर्मक-पिब-भुजेः ।५।१।११॥ भूतादौ यः क्तो विहितः स एभ्यः 'कर्तरि वा' स्यात् । गतोऽसौ ग्रामम, गतोऽसौ तैः; आसितोऽसौ, आसितं तैः; पीताः पयः, पीतं पयः; भुक्तास्ते, इदं तैर्भुक्तम् ।।११।।
___ अपर्याचाऽऽधारे ।५।१।१२॥ आहारार्थात् धातोर्गत्यथदिश्च यः क्तः स 'आधारे वा' स्यात् । इदमेषां जग्धम, तैर्जग्धमः इदं तेषां यातम्, तैर्यातम् इदमेषां शयितम, तैः शयितमः इदं गवां पीतम्, गोभिः पीतम्। इदं तेषां मुक्तम्, तैर्मुक्तम् ॥१२॥