Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
38 1
श्रीमद्ध हेमचन्द्र शब्दानुशासने
श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः ।
वितानराजादन शिश्नयौवनापीनोदपानासनकेतनाशनम्
॥ १६ ॥
श्राद्धः पितृकर्म । यस्तु मत्वर्थीयाणन्तः स श्राश्रयलिङ्गः, प्रायुधः प्रहरणं, अन्धः तमः औषधो भेषजं, गन्धमादनः पर्वतविशेषः, प्रस्फोटनः शूर्पं, लग्नं मेषादि, पिधानं संवरणं, अपेः प्यादेशाभावेऽपिधानमपि, चन्दनः मलयजतरुः चन्दनान्तत्वाद्धरिचन्दनो देवदारु : चन्दन विशेषश्च वितानं विस्तारः उल्लोच:, शून्यं यज्ञश्च राजादनः पियालः क्षीरिका च शिश्नं मेढ्रः, यौवनं द्वितीयं वयः, प्रापीनं ऊधः, उदपानं कूपः, असनं वृक्षविशेषः श्लेष निर्देशादासनमुपवेशनं, केतनः ध्वजः, प्रशनः श्रोदनः ।। १६ ।।
लिपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः । धननिधन विमानास्ताडनस्तेनवस्ना, भवनभुवनयानोद्यानवातायनानि ॥ २०॥
नलिनः पद्म' पुलिनः सैकतं, मौनो वाग्यमः, वर्धमानः शरावः समानः तुल्यः शरीरस्थो वायुविशेषश्च, प्रोदनः कूरं, दिनो दिवसः शतं मानान्यस्य शतमानः, भूभागविशेषः रूप्यमानं च, हायनः वर्षः रश्मिश्च । स्थानं श्राश्रयः, मानः दर्पः, धनो द्रव्यं निधनः विनाशः कुलं च विमानं व्योमयानादि ताडनः व्यधनं, स्तेनः चौरः चौर्यं चः वस्नः अवक्रयः, धनवस्त्रयोस्तु क्लीबत्वं, भवनः गेहं भुवनं जगत्, यानः वाहनं, उद्यान : क्रीडास्थानं, वातायनः गवाक्षः ।। २० ।।
अभिधानद्वीपिन निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुरणपः कुतपावापचापसूर्पाः ।। २१ ।।
अभिधानं संज्ञा शब्दश्व, द्वीपिनं व्याघ्रः, निपानं आहावः, शयनं शय्या, लशुनरसोनगृञ्जना महाकन्दाः, खलिनं खलीनं च कवियं, अनुमानो हेतु:, अकर्त्रनडन्तोऽयं, भावे तु क्लोत्वमेव, दीपः प्रदीपः, कुरणपः शवं, कुतपः छागरोमकृतकम्बलः दर्भः अपराह्णकालश्व, आवापो वलय:, चापं धनुः, शूर्पं धान्यादिपवनं भाण्डम् ।। २१ ।।
स्तूपो पौ विटपमण्डपशष्पबाष्य
द्वीपानि विष्टपनिपौ शफडिम्बबिम्बाः ।
जम्भःकुसुम्भककुभौ कलभौ निभार्म
संक्रामसंक्रमललामहिमानि हेमम् ।। २२ ।।
स्तूपो मृदादिकूट:, उडुपं प्लवः चन्द्रे तु पुंस्त्वं, विटपः तरोः स्कन्धादूर्ध्वं शाखा, मण्डपो जनाश्रयः, शष्यं वालतृणं प्रोक्त, बाष्पं नेत्रवारि ऊष्मा च द्वीपं मध्येजलं देशः, विष्टां जगत्, निपं 'घटः, शफः खुरः, डिम्बः उदरान्तोऽवयवः, बिम्बं प्रतिबिम्बं मण्डलं च,
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560