Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 471
________________ लिङ्गानुशासनम् [ 47 पटी वस्त्रविशेषः, पुटी पत्रभाजनं, भूर्जाद्यवयवे तु टान्तत्वात् पुस्त्वमेव, वटी न्यग्रोधतरु: रज्जुश्च, वाटी वृत्ति: यवविकारे वरण्डेऽङ्गे च बाहुलकात् पुनपुसकः, वर्त्मनि पुस्त्वमेव, इक्कटीवास्तुनोस्तु स्त्रियां, कपाटी अररिः, जपादित्वाद्वत्वे कवाटी, शकटी अनः, कटी वीरणादिकृतः, पेटी संघातः परिच्छदश्च, स्वार्थे के पेटिका, मठी आश्रयविशेषः, कुण्डी भाजनभेद: नीडा कुलायः, विषाणी विषाणा वा गवादिशृङ्ग दन्तिदन्तश्च । तूणी तूणा वा इषुधिः कंकती केशमार्जनम् ।। ४ ।। मुस्तकुयेङ गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकन्दराः । नखरो वल्लूरो दरः पुरश्छत्त्रकुवलमृणालमण्डलाः ॥ ५ ॥ मुस्ता कन्दविशेषः, कुथा वर्णकम्बलः, इङ गुदी वृक्षविशेषः, जुम्भा जृम्भरणं, दाडिमा उच्चिलिङ्गतरुः तत्फलं तत्कणश्च, पिठरी स्थालो मुस्तं मन्थानदण्डयोस्तु क्लीबं, प्रतिसरा मङ्गल्यसूत्रं सेनाया: पश्चाद्भागश्च । पात्री भाजनं, योग्ये यज्ञभाण्डे नाट्यानुकत्तरि च क्लीब:, कन्दरी कन्दरा च दरी, अंकूशे तु पूसि। नखरी नखरा वा नख:, वल्लरा सोकरं शुष्कं वा मांसं, ऊषरे नक्षत्रे वाहने च क्लीब, दरी श्वभ्र, पूरी नगरी, छत्त्री प्रातपत्रं, कुवली वृक्षविशेषः तत्फलं च, मृणाली बिसं, मण्डली देशः समूहश्च बिम्ब चतुरस्रता च ।। ५ ।। नालप्रणालपटलागलशङ्खलकन्दलाः । पूलावहेलौ कलशकटाहौ षष्टिरेण्विषु ॥ ६ ॥ ॥ इति स्वतस्त्रिलिङ्गाः ॥ नाली नाला वा पद्मादिवृन्तं, जलनिर्गमे तु बाहुलकात्पुसि, लत्वाभावे नाडः । प्रणाली जलपद्धतिः, पटली गृहोपरिभागः, अक्षिरोगश्च, 'अर्गला त्रिषु कल्लोले, दण्डे चान्त: कपाटयोः ।' शृङ्खलः शृङ्खला शृङ्खलमयोमयी रज्जुः, कन्दली उपरागः समूहः नवाङ कुरः द्रुमभेदश्च, पूली पूला वा बद्धतृणसंचयः, अवहेलाऽवज्ञा, कलशी जलाद्याधारविशेषः, दन्त्योपान्त्योऽयमपि, कटाही भाण्डविशेषः, षष्टिः संख्याविशेष:, रेणधुलि:, इषुर्बाणः ।। ६ ।। ।। इति स्वतस्त्रिलिङ्गावचरिः ।। परलिङ गो द्वद्वोऽशी ङऽर्थो वाच्यवदपत्यमितिनियताः । अस्त्र्यारोपाभावे गुरगवृत्तेराश्रयाद्वचनलिङगे ॥१॥ द्वन्द्वः समासो द्वन्द्वस्यैव यत्परमुत्तरपदं तत्समानलिङ्गो भवति, स च समाहारा'दन्यो भिन्नलिङ्गवतिपदो वचनं प्रयोजयति, समाहारस्तु नपुंसक उक्तः 'समानलिङ्गवतिपदोऽपि सिद्धलिङ्ग एव' । इमौ मयूरीकुक्कुटो, इमे कुक्कुटमयूयौं, इत्यादि,

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560