________________
लिङ्गानुशासनम्
[ 47
पटी वस्त्रविशेषः, पुटी पत्रभाजनं, भूर्जाद्यवयवे तु टान्तत्वात् पुस्त्वमेव, वटी न्यग्रोधतरु: रज्जुश्च, वाटी वृत्ति: यवविकारे वरण्डेऽङ्गे च बाहुलकात् पुनपुसकः, वर्त्मनि पुस्त्वमेव, इक्कटीवास्तुनोस्तु स्त्रियां, कपाटी अररिः, जपादित्वाद्वत्वे कवाटी, शकटी अनः, कटी वीरणादिकृतः, पेटी संघातः परिच्छदश्च, स्वार्थे के पेटिका, मठी आश्रयविशेषः, कुण्डी भाजनभेद: नीडा कुलायः, विषाणी विषाणा वा गवादिशृङ्ग दन्तिदन्तश्च । तूणी तूणा वा इषुधिः कंकती केशमार्जनम् ।। ४ ।।
मुस्तकुयेङ गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकन्दराः । नखरो वल्लूरो दरः पुरश्छत्त्रकुवलमृणालमण्डलाः ॥ ५ ॥
मुस्ता कन्दविशेषः, कुथा वर्णकम्बलः, इङ गुदी वृक्षविशेषः, जुम्भा जृम्भरणं, दाडिमा उच्चिलिङ्गतरुः तत्फलं तत्कणश्च, पिठरी स्थालो मुस्तं मन्थानदण्डयोस्तु क्लीबं, प्रतिसरा मङ्गल्यसूत्रं सेनाया: पश्चाद्भागश्च । पात्री भाजनं, योग्ये यज्ञभाण्डे नाट्यानुकत्तरि च क्लीब:, कन्दरी कन्दरा च दरी, अंकूशे तु पूसि। नखरी नखरा वा नख:, वल्लरा सोकरं शुष्कं वा मांसं, ऊषरे नक्षत्रे वाहने च क्लीब, दरी श्वभ्र, पूरी नगरी, छत्त्री प्रातपत्रं, कुवली वृक्षविशेषः तत्फलं च, मृणाली बिसं, मण्डली देशः समूहश्च बिम्ब चतुरस्रता च ।। ५ ।।
नालप्रणालपटलागलशङ्खलकन्दलाः । पूलावहेलौ कलशकटाहौ षष्टिरेण्विषु ॥ ६ ॥
॥ इति स्वतस्त्रिलिङ्गाः ॥ नाली नाला वा पद्मादिवृन्तं, जलनिर्गमे तु बाहुलकात्पुसि, लत्वाभावे नाडः । प्रणाली जलपद्धतिः, पटली गृहोपरिभागः, अक्षिरोगश्च, 'अर्गला त्रिषु कल्लोले, दण्डे चान्त: कपाटयोः ।' शृङ्खलः शृङ्खला शृङ्खलमयोमयी रज्जुः, कन्दली उपरागः समूहः नवाङ कुरः द्रुमभेदश्च, पूली पूला वा बद्धतृणसंचयः, अवहेलाऽवज्ञा, कलशी जलाद्याधारविशेषः, दन्त्योपान्त्योऽयमपि, कटाही भाण्डविशेषः, षष्टिः संख्याविशेष:, रेणधुलि:, इषुर्बाणः ।। ६ ।।
।। इति स्वतस्त्रिलिङ्गावचरिः ।।
परलिङ गो द्वद्वोऽशी ङऽर्थो वाच्यवदपत्यमितिनियताः ।
अस्त्र्यारोपाभावे गुरगवृत्तेराश्रयाद्वचनलिङगे ॥१॥
द्वन्द्वः समासो द्वन्द्वस्यैव यत्परमुत्तरपदं तत्समानलिङ्गो भवति, स च समाहारा'दन्यो भिन्नलिङ्गवतिपदो वचनं प्रयोजयति, समाहारस्तु नपुंसक उक्तः 'समानलिङ्गवतिपदोऽपि सिद्धलिङ्ग एव' । इमौ मयूरीकुक्कुटो, इमे कुक्कुटमयूयौं, इत्यादि,