________________
46 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोश: शिम्बाखड्गपिधानयोः ॥ १ ॥
स्वतो न तु विशेष्यवशात्, अनुतर्षे मद्यपाने वाच्ये सरकशब्दस्त्रिलिङ्गः, सरक:, सरका, सरकं, स्वतस्त्रिलिङ्ग इत्यधिकारः । शले श्वाविद्रोमरिण वाच्ये शललशब्दस्त्रिलिङ्गः, शलल:, शलली, शललं । अब्दोपले मेघपाषाणे, वाच्ये करकशब्दस्त्रिलिङ्गः, शिम्बायां बीजकोशे खड्गपिधाने प्रत्याकारे च कोशशब्दस्त्रिलिङ्गः ।। १ ।।
जीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृतनक्षत्र पुराद्याभरणाभिधाः ॥ २॥
प्राणेषु सुषु वाच्येषु जीवः स्वतस्त्रिलिङ्गः । जीवः, जीवा जीवं प्रारणाः, केदारे वाच्ये वलजस्त्रिलिङ्गः, पवनेधान्यपवनस्थाने खलशब्दस्त्रिलिङ्गः, वृत्तं मात्रादिच्छन्दः, वृत्तादीनामभिधा नामानि बहुलं लक्ष्यानुरोधेन त्रिलिङ्गानि, वृत्ताभिधा श्लोकः पुटः परणव इत्यादि पुंसि । प्रमाणी, समानी, कलिका, गाथा, ग्रार्या इत्यादि स्त्रियां पक्त्रं वितानमित्यादि क्लीबे, दण्डकः पु' नपुंसकः, वसंततिलकं स्त्रीक्लीबे उक्त', नक्षत्राभिधा तिष्य: पुनर्वसू इत्यादि पुंसि, अश्विनी इल्वलाः चित्रा इत्यादि स्त्रियां, भं नक्षत्रं इत्यादि नपुंसकम् ।
मृगशिरः पुंनपुंसकः, कस्यचित् पुरस्याभिधा द्रङ्गः द्राङ्गः निगमः इत्यादि पुंसि । पू: अमरावती अलकेत्यादि स्त्रियां, अधिष्ठानं पत्तनं दुर्गं इत्यादि क्लीबम् । प्रादिशब्दो ग्रामदेशोपलक्षणम्, तेन वरणा ग्रामः गोदौ ग्रामः इत्यादि पुसि । शालूकिनी ग्रामः काञ्ची माढिश्व देशः इत्यादि स्त्रियाम् । कोडं ग्रामः कुरुक्षेत्र च देश : इत्यादि क्लीबे | आभरणाभिधा, तुलाकोटि:, ताडङ्कः इत्यादि पुंसि वालपाश्यापारितथ्या शब्दो केशाभरणे, मेखला सप्तकी इत्यादि स्त्रियां, केयूराङ्गदे मुकुटं ग्रङ गुलीयकं इत्यादि क्लीबे, आवाप्यादयः पुंनपुंसकाः, हारः पुंनपुंसकः, रशनं स्त्रीक्लीबम् ।। २ ।।
भल्लातक ग्रामलको हरीतकबिभीतकौ ।
तारकाढकपिटक - स्फुलिङ्गा विडङ्गतटौ ॥ ३ ॥
भल्लातकी ग्रामलकी हरीतकी बिभीतक्यादयो वृक्षभेदाः, तारका भम् ग्राढकी मानविशेष: पिटकाभाजनविशेषः फोटश्च स्फुलिङ्गा अग्निकरणाः, विडङ्गा प्रौषधिविशेष:, अभिज्ञे त्वाश्रयलिङ्गः, तटी रोधः ।। ३ ।।
पटः पुटो वटो वाटः कपाटशकटौ कटः ।
पेटो मठः कुण्डनीड - विषारणास्तूरणकङ कतौ ॥ ४ ॥