Book Title: Shravak Bhoomi Author(s): Karunesha Shukla Publisher: Kashi Prasad Jayaswal Research Institute View full book textPage 6
________________ सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् । अनुकम्पामुपादाय तं नमस्यामि गौतमम् ।। (नागार्जुनस्य) यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतोऽशक्यस्तर्कयितुं निरुक्त्यपगतः प्रत्यात्मवेद्यः शिवः । . तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे सर्वारम्बणरागदोषतिमिरव्याघातकत्रे नमः ॥ . (मैत्रेयनाथस्य) अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । आश्रयस्य परावृत्तिद्विधा दौष्ठुल्यहानितः ।। स एवानास्रवो धातुरचिन्त्यः कुशलोध्रुवः । सुखो विमुक्तिकायोऽसौ धर्मारव्योऽयं महामुनेः ।। (वसुबन्धोः ) प्रार्यासङ्गमनङ्गजिन्नयवहो यदू भूपतीशोऽन्वशादाचार्यो वसुबन्धुरुधुरमतिस्तस्याऽऽज्ञयाऽऽदिद्युतत् । दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायकस्तस्मिन्वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ।। (ज्ञानश्रीमित्रस्य) यदुक्त श्रुतौ बौद्धजैनादितन्त्र तथा चागमेऽध्यासवभाव एव । शिवो वा प्रवक्ताऽथवा पद्मयोनिरनिर्वाच्यतथ्यन्तु सम्पृक्तमस्ति ।। . (राष्ट्रतन्त्रम्)Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 618