________________
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् । अनुकम्पामुपादाय तं नमस्यामि गौतमम् ।।
(नागार्जुनस्य)
यो नासन्न च सन्न चापि सदसन्नान्यः सतो नासतोऽशक्यस्तर्कयितुं निरुक्त्यपगतः प्रत्यात्मवेद्यः शिवः । . तस्मै धर्मदिवाकराय विमलज्ञानावभासत्विषे सर्वारम्बणरागदोषतिमिरव्याघातकत्रे नमः ॥ .
(मैत्रेयनाथस्य)
अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् । आश्रयस्य परावृत्तिद्विधा दौष्ठुल्यहानितः ।। स एवानास्रवो धातुरचिन्त्यः कुशलोध्रुवः । सुखो विमुक्तिकायोऽसौ धर्मारव्योऽयं महामुनेः ।।
(वसुबन्धोः )
प्रार्यासङ्गमनङ्गजिन्नयवहो यदू भूपतीशोऽन्वशादाचार्यो वसुबन्धुरुधुरमतिस्तस्याऽऽज्ञयाऽऽदिद्युतत् । दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायकस्तस्मिन्वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ।।
(ज्ञानश्रीमित्रस्य)
यदुक्त श्रुतौ बौद्धजैनादितन्त्र तथा चागमेऽध्यासवभाव एव । शिवो वा प्रवक्ताऽथवा पद्मयोनिरनिर्वाच्यतथ्यन्तु सम्पृक्तमस्ति ।।
. (राष्ट्रतन्त्रम्)