Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 14
________________ श्राद्धविधि प्रस्तावना प्रकरणम् एतेन क्षेत्रसमास-गुणस्थानकमारोह-श्रीपालचरित्रादिप्रबन्धप्रणेतारः श्रीमद्रत्नशेखरसूरयस्तु बृहत्तपागच्छेशश्रीमद्धमतिलक-सूर्यन्तेवासित्वेनैतत्प्रबन्धप्रणेतृसमकालीना न तु त एवेति स्पष्टमवसीयते । दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासिककृत्य-वार्षिककृत्य-जन्मकृत्यादिषट्कृत्यप्रकाशात्मकेऽस्मिन् प्रबन्धे दिनकृत्यनामकप्रथमप्रकाशे श्राद्धानां माध्यस्थ्यादिचतुर्गुणोपवर्णनम्, उपलक्षणेनैकविंशतिगुणवर्णनम्, श्रीशत्रुञ्जयतीर्थस्य सान्वर्थनामसंस्थापकम् श्रीशुकराजचरित्रं तदन्तर्गतं श्रीदत्तकेवलिनः चन्द्रशेखरस्य च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्राद्धस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम्, सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि । न च वक्तव्यमत्र जिनप्रतिमाप्रतिपादनं विफलम्, जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकत्वेन प्रकृष्टशुभाध्यवसायजनकत्वात्, कथञ्चिद्भावजिनस्वरूपत्वाच्च । तत्तद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसुन्दर्या मोहवतां मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिव, योगसनस्य योगिनां योगासनाभ्यासशेमुषीजनकत्वमिव, भूगोललोकनालिकानन्दीश्वरद्धीपपुट-लङ्कापुटादीनां निध्यानवतां प्रतिपाद्यत्वेन तद्गतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाहयथा हि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च कामकेलीविकारन्कलयन्ति कामिनः ॥१॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमति: परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः ॥२॥ नन्दीश्वरद्वीपपुटात्तया च लङ्कापुटात्तद्गतवस्तुचिन्ता । एवं जिनेशप्रतिमापि दृष्टा तत्तद्गुणानां स्मृतिकारणं स्यात् ॥३॥ [ ]

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 524