Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat
View full book text ________________
अर्हम् न्यायाम्भोनिधि-श्रीमद्विजयानन्दसूरीश्वरपादपद्येभ्यो नमः ।
। प्रस्तावना । सुप्रसिद्धं ह्येतत् परिज्ञातपूतपारमेश्वरप्रवचनपरमार्थानां पण्डितप्रवराणाम् यदुत मुख्यतयाऽधिकारिद्वैविध्येन प्रकाशितवन्तः साधुधर्म श्राद्धधर्मं च अपारेऽस्मिन् संसारनीराकरे निमज्जज्जन्तुजातस्य बोहित्थकल्पा धर्मवरसार्वभौमाः श्रीमत्तीर्थाधिपतयः । संहब्धवन्तश्च सूत्रतया समवाप्योत्पादव्ययध्रौव्यात्मिकां त्रिपदी द्वादशाङ्ग्या निर्मातारः श्रीमद्गणभृत्पादाः ।
तदनुसारेण निर्मितोऽयं श्रीजिननिकेतन-प्रतिकृति-सपर्या-तन्निरूपिताणुव्रतादिरूपश्राद्धधर्मप्रतिपादक: सतशतैकषठ्यधिक-षट्सहस्रसङ्ख्यात्मिकया स्वोपज्ञविधिकौमुद्याख्यवृत्त्योपेतः सप्तदशमूलगाथात्मक: श्राद्धविधिनामा निबन्धो भव्याम्भोजभासनभानुभिः सुविहितनामधेयैः श्रीमद्ररत्नशेखरसूरिवरैः।
एते पूज्यप्रवरा: केषां विनेयावतंसा: ? कस्मिंश्च शुभसमये समासादितवन्तो जन्मदीक्षादिकं ? काँस्काँश्च निर्मितवन्तो निबन्धान् ? कदा च ग्रथितोऽयं ग्रन्थः ? इत्येतत् जिज्ञासव:
श्रीदेवसुन्दरगुरोः, पट्टे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ॥१॥
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 524