Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 15
________________ श्राद्धविधि प्रस्तावना प्रकरणम् अत एव जिनप्रतिमा नात्यन्तजडस्वरूपा न वा मिथ्यात्वगुणस्थानवर्तिनी, येन नमस्कारादिकर्तृणां सर्वविरत्यादीनां बाध: स्यात् । एतेन जिनप्रतिकृति: नमस्कारद्यानर्हा, जडत्वात्, प्रस्तरगोवत्, प्रथमगुणस्थावर्तित्वाद्वा, मृदादिवत्, इत्यप्यपास्तमवसातव्यम् । न च जिनप्रतिमैकान्तेन तत्तद्गुणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव न किन्तु प्रत्युत केषाञ्चित् द्वेषवतां प्रकृष्टाशुभभावजनिकापीति वाच्यम्, अभव्यानां तीर्थपतिवाक्यवत् भवादृशानां भवाभिनन्दिनां तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यद्वा प्रद्वेषवतां भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति प्रलपितव्यम्, भावजिनाध्यारोपेणैव स्थापनानिक्षेपस्य स्वीकृतत्वात् । न चाशनीयं विकल्पविषयत्वेनाध्यारोपस्यावस्तुत्वम्, कथञ्चित् अध्यारोपस्यापि वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किञ्च भरतसार्वभौमनिष्पादिताष्टापदगिरिचतुर्विशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृतश्रीनमिजिनस्य, आषाढिश्राद्धकारितश्रीशङ्केश्वरपार्श्वनाथस्य, श्रीभरतनरेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य, चैत्यादिविद्यमानबिंबानामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात् । पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमार्हतश्रीसंप्रतिमहाराजेन, चौलुक्यवंशचूडामणि श्रीकुमारपालभूपालादिना च निर्मापितानामनेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यर्हत्वेन मान्या । यदि मूलावश्यके | तादृशोल्लेखाभावेन निर्युक्तक्यादीनामप्रामाण्यत्वेनाधुनिकबिम्बानां त्वनभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न, त्वदभिमतसूत्रकृताङ्ग-स्थानाङ्ग-विवाहप्रज्ञप्ति-ज्ञाताधर्मकथाङ्ग-उपासकदशाङ्ग-औपपातिक-राजप्रश्नीय-जीवाभिगम-जम्बूद्वीपप्रज्ञप्त्यादिसमयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याहृतिप्रसङ्गेनाप्तप्रवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरेव प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्या नियतस्थाने एव वतित्वात् साऽपि नित्यैवेति कल्पना नाञ्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैव तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा A.A.AAAAAAAAdalataka

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 524