________________
श्राद्धविधि
प्रस्तावना
प्रकरणम्
अत एव जिनप्रतिमा नात्यन्तजडस्वरूपा न वा मिथ्यात्वगुणस्थानवर्तिनी, येन नमस्कारादिकर्तृणां सर्वविरत्यादीनां बाध: स्यात् । एतेन जिनप्रतिकृति: नमस्कारद्यानर्हा, जडत्वात्, प्रस्तरगोवत्, प्रथमगुणस्थावर्तित्वाद्वा, मृदादिवत्, इत्यप्यपास्तमवसातव्यम् । न च जिनप्रतिमैकान्तेन तत्तद्गुणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव न किन्तु प्रत्युत केषाञ्चित् द्वेषवतां प्रकृष्टाशुभभावजनिकापीति वाच्यम्, अभव्यानां तीर्थपतिवाक्यवत् भवादृशानां भवाभिनन्दिनां तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यद्वा प्रद्वेषवतां भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति प्रलपितव्यम्, भावजिनाध्यारोपेणैव स्थापनानिक्षेपस्य स्वीकृतत्वात् । न चाशनीयं विकल्पविषयत्वेनाध्यारोपस्यावस्तुत्वम्, कथञ्चित् अध्यारोपस्यापि वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किञ्च भरतसार्वभौमनिष्पादिताष्टापदगिरिचतुर्विशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृतश्रीनमिजिनस्य, आषाढिश्राद्धकारितश्रीशङ्केश्वरपार्श्वनाथस्य, श्रीभरतनरेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य, चैत्यादिविद्यमानबिंबानामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात् । पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमार्हतश्रीसंप्रतिमहाराजेन, चौलुक्यवंशचूडामणि श्रीकुमारपालभूपालादिना च निर्मापितानामनेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यर्हत्वेन मान्या । यदि मूलावश्यके | तादृशोल्लेखाभावेन निर्युक्तक्यादीनामप्रामाण्यत्वेनाधुनिकबिम्बानां त्वनभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न, त्वदभिमतसूत्रकृताङ्ग-स्थानाङ्ग-विवाहप्रज्ञप्ति-ज्ञाताधर्मकथाङ्ग-उपासकदशाङ्ग-औपपातिक-राजप्रश्नीय-जीवाभिगम-जम्बूद्वीपप्रज्ञप्त्यादिसमयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याहृतिप्रसङ्गेनाप्तप्रवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरेव प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्या नियतस्थाने एव वतित्वात् साऽपि नित्यैवेति कल्पना नाञ्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैव तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा
A.A.AAAAAAAAdalataka