________________
प्रस्तावना
श्राद्धविधिप्रकरणम्
सर्वेषामर्द्धचक्रवर्तिनां मिथ्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तृणां याच्याप्रसङ्गाच्च । न च तया तथा याञ्चा कृता, अपि तु शकस्तवेन जिनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमर्दनत्वेन हिंसासंभवात् हिंसायाश्च "सव्व पाणा सव्वे भूआ" इत्यादौ हिंसात्वावच्छेदेनानिष्टसाधनत्वप्रतिपादनात्, प्रतिमापूजाप्रतिपादनं नावहति सौष्ठवमिति नैव नोदनीयं, एवं सति दानादिकियाया अप्यभावापत्तेः, तस्मात् जिनाज्ञैवान्वेषणीया । अपि च यतनया क्रियमाणा जिनार्चा न पापप्रयोजिका, प्रत्युत चित्तशुद्धिफलकत्वेन पुण्यादिप्रयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतनया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निरनुबन्धिकृत्वात् । किञ्च आगमेऽपि सूर्याभदेवाद्यधिकारे सुमादिभिजिनार्चायाः प्रतिपादनान्नैवाशोभनं प्रतिमार्चाप्रतिपादनम् । न च विकुर्वीतकुसुमैरर्चा कृतेति वाच्यम्, राजप्रश्नीयसूत्रे जलस्थलसमुद्भुतकुसुमानां प्रोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देशविरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैव प्रकटनीया, एवं सति तत्र संयमादेरपि भवनिबन्धनत्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् नैतत् सम्भवतीत्यप्यलीकं, तत्रापि गमनागमनक्रियासु वायुकायादीनां विराधनासम्भवात् । विबुधानामधार्मिकत्वकथनेन सूत्राशातनां मा विधेह्यन्यथा भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात्, कि बहुनाऽसंयतत्वविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयतत्वव्यपदेशस्यापि निरस्तत्वात् । तथा चोक्तं पञ्चमशतके चतुर्थोद्देशे "देवाणं भंते ! संजय त्ति वत्तव्यं सिया ? गोयमा ! नो इणढे समटे अब्भखाणमेयं देवाणं । देवाणं भंते ! असंजय त्ति वत्तव्वं सिया ? नो इणढे समढे निट्टरवयणमेयं देवाणं । देवाणं भंते ! संजयाऽसंजय त्ति वत्तव्वं सिया ! गोयमा ! नो इणढे समढे असब्भुअमेयं