________________
।
प्रस्तावना
श्राद्धविधिप्रकरणम्
देवाणं । से किं खाइएणं भंते ! देव त्ति वत्तव्वं सिया ? गोयमा ! देवाणं नो संजय त्ति वत्तव्वं सिया।" (व्याख्याप्रज्ञप्ति) यत्तु देवानामधार्मिकत्वमुक्तं तत्तु संयमधर्मापेक्षया प्रत्येतव्यम्, तस्मात् आगमोपदिष्टकूपज्ञातेन सुव्यवस्थितं सफलत्वमित्यलमतिपल्लवितेन ।
अस्मिन् विषयेऽधिकजिज्ञासुभिस्तु समवलोकनीया वादिद्विरदपञ्चाननश्रीमद्यशोविजयवाचकवरविरचितप्रतिमाशतकादिप्रबन्धाः ।
श्रीजिनप्रतिकृतिसपर्यानिषेधकस्तु साम्प्रतसमये विद्यमानजैनाभासढुंढकस्य लुम्पकनामाऽऽदिपुरुषोऽस्य निबन्धस्य निर्मातरि भगवति विद्यमाने प्रादुरभूत् । एतवृत्तान्तस्तु कुमतमतततितिरस्करणतरणितुल्यश्रीमद्धर्मसागरवाचकानां "तदानीं च लुम्पकाख्यलेखकात् विक्रमाष्टाधिकपञ्चदशशते १५०८ वर्षे जिनप्रतिमोत्थापनपरं लुंपकमतं प्रवृत्तम् । तद्वेषधरास्तु विक्रमीयत्रयस्त्रिंशदधिकपञ्चदशशतवर्षे जातास्तत्र प्रथमो वेषधारी भाणाख्यो अरहटवाडावास्यभूदिति ।" एतदुल्लेखेन स्पष्टमवसीयते इति । ___ रात्रिकृत्यनामकद्वितीयप्रकाशे दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणाद्यनेकविधयो विहिताः । पर्वकृत्याख्यतृतीयप्रकाशे पर्वतिथि-अष्टाह्निक-पौषधविध्यादिस्वरूपं समदर्शि । चातुर्मासिककृत्यनामकचतुर्थप्रकाशे चातुर्मासिकनियमाणुव्रतादिस्वरूपं सङ्कलितम् । वर्षकृत्यनामकपञ्चमप्रकाशे-सङ्घार्चन-साधर्मिकवात्सल्य-श्रीजिनस्य रथयात्रादिकृत्यानि कथितानि सन्ति । जन्मकृत्यनामकषष्ठप्रकाशे वासस्थान-विद्याग्रहण-विवाहविधि-श्रीजिनचैत्यकारापणाद्यनेककृत्यानि प्रतिपादितानि ।
ग्रन्थस्यास्य मुद्रापणार्थं तपगच्छगगनाङ्गणगगनमणि-न्यायाम्भोनिधि-श्रीमद्विजयानन्द सूरीश्वर (आत्मारामजी) पट्टविराजितश्रीमद्विजयकमलसूरीश्वरसदुपदेशामृतसिक्तेन 'गोधा'निवासिना श्रेष्ठिवरेण-जयचन्द्र-तनुजन्मना श्रीमज्जीवनचन्द्रेण द्रव्यसाहाय्यं दत्तम् ।