________________
श्राद्धविधिप्रकरणम्
शुद्धिविषये चास्य सुज्ञातसमयसारैर्वाचकवर्य श्रीमद्वीरविजयचरणसरोरुहसेवाहेवाकिभिरस्मद्गुरुगुरुवर्य-अनुयोगाचार्यश्रीमद्दानविजयगणिभिः कृतेऽपि यथाशक्ति प्रयासे "मनुष्यसहभुवो भ्रान्तयो दुनिर्वारा: " इति नियमेन याः काश्चन च्युतयः स्थिता भवेयुः शीसकाक्षरयोजकदोषेण यन्त्रेशदौर्लक्ष्येण च बह्व्यो जाताः ताः कृपालुतां विधाय स्वभावसुन्दराः सुहृदः संशोधयन्तु ।
लिखिता चेयं लघ्वी प्रस्तावना म्हेसाणाग्रामसंस्थितेन श्रीमद्विजयकमलसूरीश्वरसुसाम्राज्ये प्रवर्त्तमानेनानुयोगाचार्यश्रीमद्दानविजयपादपद्मपरिचर्यापरायणमुनिश्रीप्रेमविजयान्तेवासिना मुनिरामविजयेन (वर्तमान पू. आ. भ. श्रीविजयरामचन्द्रसूरिभिः) वैक्रमीये १९७४ संवत्सरे ज्येष्ठमासस्य कृष्णत्रयोदश्याम् ।
A š š š š š š s A
प्रस्तावना
१७