________________
श्राद्धविधि
प्रस्तावना
प्रकरणम्
एतेन क्षेत्रसमास-गुणस्थानकमारोह-श्रीपालचरित्रादिप्रबन्धप्रणेतारः श्रीमद्रत्नशेखरसूरयस्तु बृहत्तपागच्छेशश्रीमद्धमतिलक-सूर्यन्तेवासित्वेनैतत्प्रबन्धप्रणेतृसमकालीना न तु त एवेति स्पष्टमवसीयते ।
दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासिककृत्य-वार्षिककृत्य-जन्मकृत्यादिषट्कृत्यप्रकाशात्मकेऽस्मिन् प्रबन्धे दिनकृत्यनामकप्रथमप्रकाशे श्राद्धानां माध्यस्थ्यादिचतुर्गुणोपवर्णनम्, उपलक्षणेनैकविंशतिगुणवर्णनम्, श्रीशत्रुञ्जयतीर्थस्य सान्वर्थनामसंस्थापकम् श्रीशुकराजचरित्रं तदन्तर्गतं श्रीदत्तकेवलिनः चन्द्रशेखरस्य च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्राद्धस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम्, सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि ।
न च वक्तव्यमत्र जिनप्रतिमाप्रतिपादनं विफलम्, जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकत्वेन प्रकृष्टशुभाध्यवसायजनकत्वात्, कथञ्चिद्भावजिनस्वरूपत्वाच्च । तत्तद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसुन्दर्या मोहवतां मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिव, योगसनस्य योगिनां योगासनाभ्यासशेमुषीजनकत्वमिव, भूगोललोकनालिकानन्दीश्वरद्धीपपुट-लङ्कापुटादीनां निध्यानवतां प्रतिपाद्यत्वेन तद्गतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाहयथा हि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च कामकेलीविकारन्कलयन्ति कामिनः ॥१॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमति: परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः ॥२॥ नन्दीश्वरद्वीपपुटात्तया च लङ्कापुटात्तद्गतवस्तुचिन्ता । एवं जिनेशप्रतिमापि दृष्टा तत्तद्गुणानां स्मृतिकारणं स्यात् ॥३॥ [ ]