SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधि प्रस्तावना प्रकरणम् मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥२॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः सङ्घकार्येषु । श्रीभुवनसुन्दरसूरिवरा दूरविहारैर्गणोपकृतः ॥३॥ विषममहाविघाताद्विडम्बनाब्धौ तरीव वृत्तियः । विदधे यज्ज्ञाननिधि मदादिशिष्या उपाजीवन् ॥४॥ एकाङ्गा अप्येकादशाङ्गिनश्च जिनसुन्दराचार्याः । निर्ग्रन्था ग्रन्थकृतः श्रीमज्जिनकीर्तिगुरवश्च ॥५॥ एषां श्रीगुरूणां प्रसादतः षट्खतिथिवर्षे । श्राद्धविधिसूत्रवृत्तिं व्यधत्त श्रीरत्नशेखरसूरिः ॥६॥ विधिकौमुदीति वृत्तावस्यां विलोकितैर्वर्णैः । श्लोकाः सहस्रषट्कं सप्तशती चैकषष्ट्याधिकाः ॥७॥ (श्रा. वि. प्रशस्ति) "श्रीमुनिसुन्दरसूरिपट्टे चतुःपञ्चाशत्तमः श्रीरत्नशेखरसूरिस्तस्य विक्रमसप्तपञ्चाशदधिके जन्म, त्रिषष्ठ्याधिके व्रतम्, त्र्यशीत्यधिके पण्डितपदम्, त्रिनवत्यधिके वाचकपदम्, व्युत्तरे पञ्चदशशतवर्षे सूरिपदम्, सप्तदशाधिके पौषकृष्णषष्ठीदिने स्वर्गभाक्, स्तम्भतीर्थे बांबीनाम्ना भट्टेन बालसरस्वतीति नाम दत्तं, तत्कृता ग्रन्थाः श्राद्धप्रतिक्रमणवृत्तिः श्राद्धविधिसूत्रवृत्तिराचारप्रदीपश्चेति" । (पट्टावली) एत्येतद् ग्रन्थप्रान्तप्रथितश्लोकसप्तकेन पाठकपदपरिभूषितश्रीमद्धर्मसागरगणिविरचितपट्टावल्या च स्पष्टतया स्वयमावेदयिष्यन्तीत्यतो विरम्यते तदुल्लेखात् । AAAAAAAAAAAAAAAAAAAAAAAAA
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy