Book Title: Shraddhavidhi Prakaranam
Author(s): Ratnashekharsuri, Vairagyarativijay, Prashamrativijay
Publisher: Tapagaccha Amar Jain Shala Khambhat

View full book text
Previous | Next

Page 16
________________ प्रस्तावना श्राद्धविधिप्रकरणम् सर्वेषामर्द्धचक्रवर्तिनां मिथ्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तृणां याच्याप्रसङ्गाच्च । न च तया तथा याञ्चा कृता, अपि तु शकस्तवेन जिनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमर्दनत्वेन हिंसासंभवात् हिंसायाश्च "सव्व पाणा सव्वे भूआ" इत्यादौ हिंसात्वावच्छेदेनानिष्टसाधनत्वप्रतिपादनात्, प्रतिमापूजाप्रतिपादनं नावहति सौष्ठवमिति नैव नोदनीयं, एवं सति दानादिकियाया अप्यभावापत्तेः, तस्मात् जिनाज्ञैवान्वेषणीया । अपि च यतनया क्रियमाणा जिनार्चा न पापप्रयोजिका, प्रत्युत चित्तशुद्धिफलकत्वेन पुण्यादिप्रयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतनया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निरनुबन्धिकृत्वात् । किञ्च आगमेऽपि सूर्याभदेवाद्यधिकारे सुमादिभिजिनार्चायाः प्रतिपादनान्नैवाशोभनं प्रतिमार्चाप्रतिपादनम् । न च विकुर्वीतकुसुमैरर्चा कृतेति वाच्यम्, राजप्रश्नीयसूत्रे जलस्थलसमुद्भुतकुसुमानां प्रोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देशविरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैव प्रकटनीया, एवं सति तत्र संयमादेरपि भवनिबन्धनत्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् नैतत् सम्भवतीत्यप्यलीकं, तत्रापि गमनागमनक्रियासु वायुकायादीनां विराधनासम्भवात् । विबुधानामधार्मिकत्वकथनेन सूत्राशातनां मा विधेह्यन्यथा भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात्, कि बहुनाऽसंयतत्वविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयतत्वव्यपदेशस्यापि निरस्तत्वात् । तथा चोक्तं पञ्चमशतके चतुर्थोद्देशे "देवाणं भंते ! संजय त्ति वत्तव्यं सिया ? गोयमा ! नो इणढे समटे अब्भखाणमेयं देवाणं । देवाणं भंते ! असंजय त्ति वत्तव्वं सिया ? नो इणढे समढे निट्टरवयणमेयं देवाणं । देवाणं भंते ! संजयाऽसंजय त्ति वत्तव्वं सिया ! गोयमा ! नो इणढे समढे असब्भुअमेयं

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 524