Book Title: Shraddh Chandrika Author(s): Divakar Bhatt Publisher: Chowkhambha Sanskrit Series View full book textPage 8
________________ भूमिका ! एवं च भुवनविदिते निर्मले भारद्वाजकुले श्रौतस्मार्तक्रियाकलापपरिशीनपूतान्तःकरणः साहित्यपारावारपारींणः पण्डित शिरोमणिभूदेवाप्रणीः श्रीबालकृष्णः समजनि । तत्सूनुर्विपश्चिदपश्चिमो नैयायिकाप्रणी महादेवभट्टो बभूव । तत्सूनुर्दिवाकरभट्टः पण्डित प्रकाण्डभट्टकुलावतंसश्रीनीलकण्ठस्य दौहित्रः । जननी चाय बालानाम्नीति समायाति । अस्य पितामहेन श्री- बालकृष्णविदुषा तिथिनिर्णयाख्यः प्रबन्धो विरचित इति श्रूयते । अस्य पित्रा महादेवभट्टेन न्यायसिद्धान्तमुक्तावल्या न्याय सिद्धान्तमुक्तावली प्रकाशाख्या व्याख्या मुक्तावलीदीपिका, मुक्तावली किरणः, दिनकरीयमित्यादिनामभिर्व्यवह्रियमाणा विरचयितुमारब्धा मरणेन बलवद्विघ्नान्तरेण वा विश्वयत्रतया उपमानखण्डान्तमेव निर्मातुं पारितम् । पितृप्रारब्धव्याख्याया अपूर्त्या पितृकीर्ते जनतायाश्च क्षतिं सम्भावयता तत्कनिष्ठसूनुना दिनकरभट्टेनावशिष्टभागस्यापि व्याख्या समपूरि । सा च साम्प्रतं दिनकरीयमिति व्यवहियते । व्याख्याप्रारम्भे महादेवभट्टकृतं मङ्गलं यथालक्ष्मीपादयुगं प्रणम्य पितरं श्री बालकृष्णाभिधं भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवस्याम्बुजम् । ज्ञात्वाशेषमतं मितेन वचसा सिद्धान्तमुक्तावली - गूढार्थास्तनुते यथामति महादेवः परेषां मुदे ॥ इति । समाप्तौ च दिनकरकृतमङ्गलपद्यं यथा- भानुं प्रणम्य परिभाव्य च शास्त्रसारं मुक्तावलीकिरण एष पितृप्रदिष्ठः । सद्युक्तिभिर्दिनकरेण करेण सोऽयं नीत: प्रकाशपदवी सुधियां मुदेऽस्तु ॥ अस्मादपि समवगम्यते पितृप्रदिष्टः कश्चिदेवांशा दिनकरेण निर्मितो न कृत्स्नो ग्रन्थ इति । एवं च ये महादेवभट्टस्यैवोपनाम दिनकर इत्यासो-दिति प्रलपन्ति तद्भ्रान्तिमूलकमेवेत्यत्र नास्ति सन्देहलेशः । अस्य च मातामहो मीमांसकाप्रणीः श्रीनीलकण्ठपण्डितो विद्वन्मण्डलोविदिततरयशा आसीत् । को वा न जानाति तं विद्वद्धौरेयम् । येन – (१) संस्कारमयूख: ( २ ) आचारमयूखः (३) समयमयूखः (४) श्राद्धमयूखः (५) नीतिमयूखः (६) व्यवहार मयखः (७) दानमयूखः (८) उत्सर्गमयूख: ( ९ ) प्रतिष्ठामयूख : (१०) प्रायश्चित्तमयूख : ( ११ ) शुद्धिमयूख : ( १२ ) शान्तिमयूख इति द्वादशमयूखा विद्वन्मान्या धर्मशास्त्रे विरचिताः । एतदीयेतिवृत्तं तु अच्यु मन्थमालायां मुद्रितस्य तिथ्यर्कस्योपोद्घाते सुविवृतमस्तीति तत एवावसे- मैतिद्यरसिकैःPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 192