Book Title: Shilparatna Part 1
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
शिल्परत्ने
[पूर्वभागः शिल्पागमाम्बुनिधिपारगता मदीय
चित्तप्रबोधनकरा गुरवोऽप्यमेयाः ॥ ५ ॥ सम्पूज्यते सदसि भार्गवसृष्टभूभा- '
गेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ । तं मे नमामि पितरं भृगुवंशजातं
शश्वत्स्वपुत्रहितपूरणजागरूकम् ॥ ६ ॥ ब्राह्म क्षात्रं च तेजोऽप्यहमहमिकया वर्णिते यत्र वीरे
तस्य श्रीदेवनारायणधरणिपतेराज्ञयाज्ञाकरोऽहम् । मन्दोऽप्यत्यन्तमोहादतिविपुलतरेभ्योऽथ पूर्वागमेभ्यः संक्षिप्तं शिल्परत्नं प्रलिखितुमधुना प्रक्रमे तत्क्रमेण ॥७॥ आचार्यलक्षणं पूर्व मानसाधनलक्षणम् । पश्चाद् (भूलक्षणं चैव) भूपरिग्रहमेव च ॥ ८ ॥ ग्रामादीनां लक्षणं च पदविन्यासलक्षणम् । वास्तुपूजाक्रमं तत्र ग्रामादेद्वारलक्षणम् ॥ ९ ॥ तत्र देवालयस्थानं परं खातविधिक्रमम् । शङ्कना दिक्परिज्ञानं गर्भन्यासं ततः परम् ॥ १० ॥ वास्तु(कर्म)विधानं च साधनानां च लक्षणम्। आयादिलक्षणं पश्चात् पश्चात् प्रासादलक्षणम् ॥ ११ ॥ पादाधिष्ठाननियममुपपीठस्य लक्षणम् । आद्यङ्गलक्षणं नाललक्षणं भित्तिलक्षणम् ॥ १२ ॥ + + + + + + भित्तिभूषाः सर्वस्वलक्षणम् (?) । 'हाराणां लक्षणं पश्चात् तोरणानां च लक्षणम् ॥ १३ ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 324