SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [पूर्वभागः शिल्पागमाम्बुनिधिपारगता मदीय चित्तप्रबोधनकरा गुरवोऽप्यमेयाः ॥ ५ ॥ सम्पूज्यते सदसि भार्गवसृष्टभूभा- ' गेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ । तं मे नमामि पितरं भृगुवंशजातं शश्वत्स्वपुत्रहितपूरणजागरूकम् ॥ ६ ॥ ब्राह्म क्षात्रं च तेजोऽप्यहमहमिकया वर्णिते यत्र वीरे तस्य श्रीदेवनारायणधरणिपतेराज्ञयाज्ञाकरोऽहम् । मन्दोऽप्यत्यन्तमोहादतिविपुलतरेभ्योऽथ पूर्वागमेभ्यः संक्षिप्तं शिल्परत्नं प्रलिखितुमधुना प्रक्रमे तत्क्रमेण ॥७॥ आचार्यलक्षणं पूर्व मानसाधनलक्षणम् । पश्चाद् (भूलक्षणं चैव) भूपरिग्रहमेव च ॥ ८ ॥ ग्रामादीनां लक्षणं च पदविन्यासलक्षणम् । वास्तुपूजाक्रमं तत्र ग्रामादेद्वारलक्षणम् ॥ ९ ॥ तत्र देवालयस्थानं परं खातविधिक्रमम् । शङ्कना दिक्परिज्ञानं गर्भन्यासं ततः परम् ॥ १० ॥ वास्तु(कर्म)विधानं च साधनानां च लक्षणम्। आयादिलक्षणं पश्चात् पश्चात् प्रासादलक्षणम् ॥ ११ ॥ पादाधिष्ठाननियममुपपीठस्य लक्षणम् । आद्यङ्गलक्षणं नाललक्षणं भित्तिलक्षणम् ॥ १२ ॥ + + + + + + भित्तिभूषाः सर्वस्वलक्षणम् (?) । 'हाराणां लक्षणं पश्चात् तोरणानां च लक्षणम् ॥ १३ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy