________________
अनुक्रमणी , प्रथमोऽध्यायः ।
जालस्य लक्षणं कूटगोष्ठादीनां च लक्षणम् । पञ्जराचरणं वृत्तस्फुटितस्य तु लक्षणम् ॥ १४ ॥ पश्चात् कुम्भलताचारमुत्तराणां च लक्षणम् । प्रस्तरस्य गलस्यापि शिखरस्य च लक्षणम् ॥ १५ ॥ लुपाया लक्षणं पश्चात्तत्र मूर्नेष्टकाविधिम् । . नासिकालक्षणं स्तूपिलक्षणं शान्तिकादिकम् ॥ १६ ॥ वृत्ताष्टाश्रषडश्रादिप्रासादाकारलक्षणम् । मण्डपस्य विधिं पञ्चप्राकारं गोपुरं ततः ॥ १७ ॥ परिवारविधि पश्चान्महापीठस्य लक्षणम् । ध्वजस्य लक्षणं सन्धिलक्षणं चित्रलक्षणम् ॥ १८ ॥ प्रत्येकं क्रमतः प्रोक्त्वा पूर्वभागे भवन्त्विति । षट्चत्वारिंशदध्यायाः शिल्परत्नाख्यसंग्रहे ॥ १९ ॥ अथातो बिम्बलिङ्गादिसाधनस्वीकृतिक्रमः । लिङ्गस्य लक्षणं पश्चालिङ्गलक्षणलक्षणम् ॥ २० ॥ बिम्बायामविधि पश्चादुत्तमं दशतालकम् । मध्यमं दशतालं चाप्यधमं दशतालकम् ॥ २१ ॥ उत्तम नवतालं च मध्यम नवतालकम् । अधमं नवतालं चाप्यष्टतालस्य लक्षणम् ॥ २२ ॥ सप्ततालं च षट्तालं पञ्चतालं तथैव च । चतुस्तालं ततः पश्चाद् भूषायुधविधि पुनः ॥ २३ ॥ शूलसंस्थापन पश्चाद् रज्जुबन्धक्रमं पुनः । मृल्लेपनं तथा देवीलक्षणं वाहलक्षणम् ॥ २४ ॥