SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने (क) शैवप्रकरणं वैष्णवं शक्तिमार्गजम्। ध्यानं च बिम्बदोषं च पीठलक्षणमेव च ॥ २५ ॥ प्रतिष्ठायाः क्रमं पश्चाज्जीर्णोद्धारं ततः परम् । लिङ्गप्रासादकरणं मानुषालयलक्षणम् ॥ २६ ॥ कूपप्रश्नं ततः पश्चादासनादिपरिच्छदम् । कर्मकारजनस्यास्य वेतनाकल्पनक्रमम् ॥ २७ ॥ क्षुरिकालक्षणं पञ्चत्रिंशदन्ताध्यायसमन्वितम् । भवेत् तदुत्तरं भागं सज्जनेभ्यो नमो नमः ॥ २८ ॥ अत्र पूर्वमाचार्यलक्षणम् । ग्रामादिकं वा नृगृहादिकं वा वाप्यादिकं वा विबुधालयं वा । यः कर्तुमिच्छत्यथ संवृतं ते नस्याद्गुरुशिल्पिरेतदर्थम् (१) ॥ २९ ॥ [पूर्वभागः विप्रः कुलीनः कृतसंस्क्रियौघः स्वधीतवेदागमतत्त्ववेत्ता । वर्णाश्रमाचारपरोऽघिदीक्षो दक्षस्तपस्वी गुरुरास्तिकोऽस्तु ॥ ३० ॥ पूर्व स्थपतिरिष्टव्यः शिल्पशास्त्रविशारदः । तथैव शिल्पशास्त्रज्ञो युक्तः स्वाचार्यलक्षणैः ॥ ३१ ॥ स्थापकोऽपि वृतः कर्त्रा वास्तुकर्म समाचरेत् । ताभ्यामुभाभ्यां प्रारब्धं विमानं वान्यदेव वा ॥ ३२ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy