________________
शिल्पिलक्षणम्
प्रथमोऽध्यायः। निष्पाद्यमा समाप्तेः स्यात् ताभ्यामेव हि नेतरैः। तयोरभावे तत्पुत्रैः शिष्यैर्वा कर्मतत्परैः ॥ ३३ ॥
अथ शिल्पिलक्षणम् । स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः । न हीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥ ३४ ॥ अमात्सर्योऽनसूयश्च तान्त्रिकः स्वभिजातवान् । ... गणितज्ञः पुराणज्ञ आनन्दश्चाप्यलुब्धकः ॥ ३५ ॥ चित्रज्ञः सर्वदेशज्ञः सत्यवादी जितेन्द्रियः । 'अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥ ३६॥ सुनामा दृढबन्धुश्व वास्तुविद्याब्धिपारगः।. स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥ ३७ ॥ स्थपत्याज्ञा(नधारी ?नुरोधी) च सर्वकर्मविशारदः । सूत्रदण्डप्रमाणज्ञो मानोन्मानप्रमाणवित् ॥ ३८ ॥ तक्षणात् स्थूलसूक्ष्माणां तक्षकः स तु कीर्तितः। मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ॥ ३९ ॥ गुरुभक्तः सदा हृष्टः स्थपत्याद्यनुगः सदा । तक्षितानां तक्षकेणाप्युपर्युपरि युक्तितः॥ ४०॥ वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा । एभिर्विनापि सर्वेषां कर्म कर्तुं न शक्यते ॥ ४१ ॥ तस्मादेष सदा पूज्यः स्थपत्यादिचतुष्टयः ॥ ११॥ .
इति शिल्परत्ने गुर्वादिलक्षणं नाम
प्रथमोऽध्यायः ।