SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽध्यायः । अथ मानसाधनम् । परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । त्रसरेणुरष्टभिः स्यात् तैरेव परमाणुभिः ॥ १ ॥ तदष्टभिस्तु बालामं लीक्षा बालाकाष्टभिः । लीक्षाष्टभिस्तु जूका स्याज्जूकाष्टगुणितो यवः ॥ २ ॥ यवोदरैः षड्गुणैर्वा सप्तभिर्वाधमादिकम् । क्रमादष्टगुणैर्वाथ मानाङ्गुलमिति स्मृतम् ॥ ३ ॥ श्वेतशाली महाशाली रक्तशाली तथैव च । सौगन्धिशेमराली च शाली पञ्चविधा स्मृता ॥ ४ ॥ क्षुण्णे सिता स्मृता शाली रक्तो त्रीहिरुदाहृतः । तासामुदरविस्तारैरपि मानाङ्गुलं स्मृतम् ॥ ५ ॥ शाल्यायतैस्त्रिभिस्तैश्च साधैस्तैर्वेदसम्मितैः । मानाङ्गुलो नचाप्येव कनिष्ठादीनि कल्पयेत् ॥ ६ ॥ र (a?क्त) शाल्यायतं तेषु द्विगुणं वा त्रिमात्रकम् । चतुस्त्रिंशधिं दुष्टमेवं मानाङ्गुलं बुधैः ॥ ७ ॥ तद्भर्तुदक्षिणकरमध्यमामध्यपर्वणः (१) । दैर्ध्य मात्राङ्गुलं श्रेष्ठं नीचं तद्वयाससम्मितम् ॥ ८ ॥ इत्थं मात्राङ्गुलं शिल्पशास्त्रज्ञैरीरितं द्विधा । अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः ॥ ९ ॥ १. 'ष्टकामभि', २. 'मै' क. पाठ:
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy