________________
मानसाधनम् । प्रथमोऽध्यायः ।
तद्वयं हस्तमुदिष्टं तच्च किष्कुरिति स्मृतम् । एकैकाङ्गलवृद्धयातो भवन्त्यष्टौ कराः स्फुटम् ॥ १० ॥ प्राजापत्यं धनुर्मुष्टिश्वापग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यं च प्रकीर्तितम् ॥ ११ ॥ इत्थमेकोत्तरत्रिंशदङ्गलान्ताः कराः स्मृताः।
एवं त्वशीतिसंयुक्तद्विशतं करभेदकम् ॥ १२ ॥ हस्तैश्चतुर्भिवतीह दण्डो नीचोत्तमः पञ्चभिरेव हस्तैः। सार्धाब्धिहस्तैरथ मध्यमोऽयं कोशः सहस्रद्वितयेन तेषाम् ॥ स्याद् योजनं कोशचतुष्टयेन तथा कराणां दशकेन वंशः। निवर्तनं विंशतिसंख्यवंशैस्तयैव रज्जुर्गजदण्डदीर्घः ॥
आ सन्धेर्बद्धमुष्टिस्तु करोऽर(ति?त्नि)रुदाहृतः । स एवारणिरुद्दिष्टास्याप्टौ चेदाकनिष्ठिका ॥ १५ ॥ प्रादेशतालगोकर्णवितस्त्यः स्युर्यथाक्रमम् ।
तर्जन्यादिकनिष्ठान्तमगुष्ठाग्रात् प्रसारिताः ॥ १६ ॥ मानाङ्गलैः केवलमेव कुर्याद् देवालयादीनि गृहाणि वा नृणाम् कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गलमिष्यते बुधैः ॥ याने च शयने किष्कुः प्राजापत्यं विमानके । आरामोद्यानकादौ तु प्राजापत्यकरं स्मृतम् ॥ १८ ॥ वास्तूनां च धनुर्मुष्टिामादीनामियं तु वा। वापीकूपादिमार्गादौ ग्रामादीनां धनुग्रहम् ॥ १९ ॥ विप्रादीनां करौ द्वौ द्वौ प्रकीर्णकधनुर्ग्रहो। वैपुल्यचापमुष्टयाख्यौ स्यातां भवनमापने ॥ २० ॥ १. 'तीष्टक' क. पाठः.