SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ शिल्परले पूर्वभागः प्राजापत्याख्यवैदेहौ किष्कुप्राच्यौ च तत्क्रमात् । सर्वेषां सर्ववस्तूनां किष्कुरेवाथवा मतः ॥ २१ ॥ धनुर्ग्रहप्रकीर्णाद्या द्विजानां गृहमापने। वैपुल्यं च धनुर्मुष्टिः क्षत्रियाणां विशेषतः ॥ २२ ॥ प्राजापत्यं च वैदेहं वैश्यजात्याहकं स्मृतम् । किष्कुप्राच्यककूचैव शूद्राणामिति केचन(?) ॥ २३ ॥ दण्डेन तद्ग्रामनिवेशनाचं पुराणि खटं निगमं च कुर्यात् । हस्तेन वेद्यादिषु मानमुक्तं स्वल्पेषु चेदङ्गलकैर्यवैर्वा ॥ २४ ॥ मुष्टिः स्याद् यज्ञपात्रादौ वितस्तिर्वस्त्रकादिषु । तालं बिम्बादिके माने भवेत्तर्मि (8) तद्विधौ ॥ २५ ॥ इति शिल्परने मानसाधनकथनं नाम द्वितीयोऽध्यायः । तृतीयोऽध्यायः । अथ भूमिलक्षणम् । गोमत्यैः फलपुष्पदुग्धतरुभिश्चाब्या समा प्राक्प्लवा स्निग्धा धीररवा प्रदक्षिणजलोपेताशुबीजोद्गमा । सा प्रोक्ता बहुपांसुरक्षयजला तुल्या. च शीतोष्णयोः श्रेष्ठा भूरधमा समुक्तविपरीता मिश्रिता मध्यमा ॥१॥ वृत्ताधेन्दुनिभा त्रिपञ्चरसकोणा शूलशूर्पाकृति- .. ' मत्स्यानेकपकूर्मपृष्ठकपिलावकोपमा मेदिनी। भस्माङ्गारतुषास्थिकेशचितिवल्मीकादिभिः संयुता का मध्यनता सगर्भकुहरा विस्रा विदिस्थापि च ॥२॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy