________________
भू मिलक्षणम् ] तृतीयोऽध्यायः । पङ्कक्लिन्ना रविकरहता वातनाकीटजुष्टा (?)
तोयाभावा विषतरुयुता कण्टकैरन्विता वा । पैशाचाढ्या यमपिशितभुग्वहिदिक्षु स्वभावा___ निम्ना भू(रिव?मि)नवगृहविधौ निन्दिता शर्कराठ्या ॥३॥ पूर्णा सुपद्मा च तथैव भद्रा धूम्रा च भूमिर्विहिता चतुर्धा । वक्ष्ये च तासामपि लक्षणानि संक्षेपतो भूमिपरिग्रहार्थम् ।। प्लक्षन्यग्रोधनिम्बार्जुनवकुलकुलस्था(प?स)नाशोकनिष्पा
वाङ्कोलैर्मालतीचम्पकतिलखदिरैः कोद्रवैर्मुद्रिता वा । भूमिर्या भूधराधीश्वरशिखरगता पार्श्वसंस्थाथवाद्रेः
पूर्णा सा पुष्टिदात्री सुरनिलयसमा कल्पने स्वल्पतोया ॥ कर्पूरागरुनालिकेरतिलकैर्दभैः कदम्बार्जुनै___ मालेयैः क्रमुकेक्षुकेतककुशैः कुन्दारविन्दोत्पलैः। पूर्वोदक्प्लवशालिनी बहुजला वा या दरीदृश्यते
सेयं शान्तिकरी सुरेशयजने सूक्ता सुपद्मा मही ॥ ६ ॥ तीरं वारिनिधेः श्रिताथ सरितस्तीर्थस्य वा दक्षिणे __ व्रीहिक्षेत्रविचित्रिताप्यदिशि यज्ञार्हाधिपैरङ्किता। कीर्णा पुष्पफलप्रवालतरुभिर्योद्यानहृद्यापि वा
भद्रा सा परिगीयते वसुमती प्रीतिप्रदा यज्वनाम् ॥ ७ ॥ अकर्वेणुविभीतकैः स्नुहियुतैः श्लेष्मातकैः पीलुभिः संकीर्णा बहुशर्करा च कठिना गर्भान्विता सोषरा।
१. 'वृ' ख, पाठः.