________________
शिल्परने
[पूर्वभागः गृध्रश्येनवराहवायसशिवाशाखामृगैः सन्ततं
जुष्टा यष्टुरनिष्टदा निगदिता धूम्रा मही सूरिभिः ॥ ८ ॥ वारुण्यैन्द्री तथाग्नेयी वायवी भूश्चतुर्विधा । तद्भवा च शिला ज्ञेया तन्नामा शुभदा शुभा ॥९॥ या कोमलतरुवाता स्वतः पुष्पितकानना । जलाशयैश्च सर्वत्र युक्ता भूर्वारुणी स्मृता ॥१०॥ या क्षीरवृक्षबहुला सौम्ये यस्या जलं महत् ।। व्रीहिक्षेत्रं च याम्यायां सा माहेन्द्री क्षितिः स्मृता ॥ ११ ॥ गृध्रकङ्कवराहक्षश्येनगोमायुवायसैः। संयुक्ता दूरपानीया भूराग्नेयी विनिन्दिता ॥ १२ ॥ अक्षस्नुहिकलिङ्गार्कपीलुश्लेष्मातकण्टकैः ।
युक्ता या निर्जला भूमिरशुभा वायवी स्मृता ॥ १३ ॥ विप्रादिक्रमतः कुशेषुवनदुर्वाकाशयुक्ता भुव
स्तुल्यातानवितानसिन्धुररसाब्ध्यंशाधिदीर्घा अपि। . श्वेतापाटलपीतमेचकरुचश्चाज्यामृगन्नासवा
मोदाः स्वादुकषायतिक्तकटुकास्वादान्विताश्च स्मृताः॥ अलाभे धवलरम्याया सर्ववर्णहितावहा । तथैव प्राक्प्लवा भूमिः सुगन्धा मधुरान्विता ॥ १५ ॥ सङ्कीर्णरूपा वसुधात्र वर्णैर्गन्धै रसैश्चाखिलवर्जनीया । एनामनालक्षितवर्णचिह्नां नक्तं परीक्षेत निमित्ततश्च ।। क्ष्मां खात्वामघटं निधाय भृतधान्यं वर्धमानं मुखे कृत्वासिच्य घृतं दिशासु सितरक्तापीतकृष्णा दशाः ।