________________
भूमिलक्षणम् ] तृतीयोऽध्यायः । विप्रादिक्रमतः प्रदीप्य विधिवन्नीते मुहूर्ते ज्वलेद् वर्तिर्यस्य धरास्य तासु सकलास्विद्धासु सर्वोचिता ॥ १७॥
परेषामपरा शस्ता(त्व?)परेषां न परा धरा । सर्वा मही प्रशस्ता स्याद् देवानां तद्विशेषतः ॥ १८ ॥ तत् खातं वा जलापूर्ण कृत्वा शतपदं व्रजेत् । पुनरागच्छतः प्राग्वत् पूर्ण चेद् भूमिरुत्तमा ॥ १९ ॥ यवन्यूना मध्यमा स्यात् त्याज्या न्यूना ततोऽधिकम् । न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादिगाःशुभाः ॥ २० ॥ अश्वत्थः पूर्वतो धन्यो दक्षिणे चाप्युदुम्बरः। न्यग्रोधः पश्चिमे प्लक्षोऽप्युत्तरेति परे जगुः ॥ २१ ॥ पूर्वाद्युदुम्बराश्वत्थप्लक्षन्यग्रोधकास्तु वा।। सर्वत्र केसराश्चूताः पुन्नागा नागडाडिमाः ।। २२ ।। पनसाश्चम्पकाः पूगा नालिकेराश्च शोभनाः ॥ २२३ ॥ पनसः प्राच्यां श्रेष्ठः क्रमुको याम्येऽथ पश्चिमे केरः।
सौम्ये चूतो धन्यो नागस्तत्रैव केसरः प्राच्याम् ॥ २३ ॥ तिन्त्रिणिरुदिता याम्ये छत्रिश्रेष्ठे हि पश्चिमे भागे। अन्तस्सारा वृक्षा यदि सन्ति ह्यन्तरेव सन्त्वपि ते ॥ २४ ॥
ये सन्ति त्वचिसारास्तेऽपि च सन्त्वेव सर्वतो बाह्ये । सकलं सारं येषां ते वृक्षाः सर्वदिक्षु युज्यन्ताम् ॥ २५ ॥
वृक्षा निस्साराश्चेत् तेषां क्षेत्रेषु वर्तनं नेष्टम् । हाटकतरुरपि नेष्टो मन्दिरसविधेष्वितीरितं यस्मात् ॥ २६ ॥
१., 'तोऽसार ॥' क. पाठः,