Book Title: Shastravartta एamucchay Author(s): Haribhadrasuri, Publisher: Godiji Jain Upashray View full book textPage 5
________________ शास्त्रवार्तासमुच्चयस्योपक्रमः। इह हि मनीषिणाऽवाप्तविवेकेनावेक्ष्य चातुर्गतिकसंसारस्य दुःखबहुलतां तदुच्छेदाय यतितव्यमेवेति विवादशून्यो मार्ग आस्तिकानां, तथापि तत्र तत्रास्तिकशास्त्रेषु तदुच्छेदमार्गस्य नानात्वमवेक्ष्यानिपुणमतीनां स्यादेवाबाधितेऽपि तदुच्छेदोपाये प्रवृत्तिव्याघातकारिण्यारेकेति न नूतनं, प्रेक्ष्य चेदं जगद्वृत्तं श्रीमन्तो हरिभद्रसूरयो विधायाप्यनेकानि नन्द्यनुयोगद्वारावश्यकजीवाभिगमप्रज्ञापनागमवृत्तीः निर्माय निर्मायं | पञ्चाशकपञ्चवस्तुषोडशकाष्टकविंशिकादीनि असाधारणानि विधिप्रकरणानि शास्त्राणि धर्मसंग्रहणीललितविस्तरानेकान्तजयपताकादीनि चान्य यूथीयमतखंडननिपुणानि विरचय्य सर्वपार्षदं शास्त्रं रचयितुकामाः प्राक् तत्तदर्शनमतपदार्थमात्रप्रतिपादनपरं षड्दर्शनसमुच्चयलोकतत्त्वनिर्णयौ विनिर्माय निखिलमतैदम्पर्यदर्शनपुरस्सरंतत्तन्मतपरीक्षापरं निबंधमेनं शास्त्रवार्तासमुच्चयाख्यमनुपममातेनुः, तथाच यथा षड्दर्शन समुञ्चयस्य समुच्चयपदाङ्कितत्वेन सर्वदर्शनप्रतिपादकता तथाऽस्यापि सर्वयूथीयशास्त्रैदम्पर्यप्रतिपादकता स्पष्टैव, सति चैवं योगदृष्टियोग| बिन्द्वादिवद् यदन परतीर्थप्रवर्तकानां तदनुसारिणां च यद्बहुमानवाचकं पदादि तन्न श्रीमतां सम्यक्त्वमालिन्यापादकं न चेतरेषामतथाविधानामनुकरणीयं, स्पष्टीकृतं चेदं तत्त्वं श्रीमद्भिरीश्वरवादे 'यतः केषांचिदादरः। अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥ २०६॥ सांख्यवाद च 'मूर्तयाऽप्यात्मनो योगो० ॥ २३६ ॥ एवं प्रकृतिवादोऽपि, विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव, दिव्यो हि स महामुनिः ॥ २३७ ॥ इत्यादिवाक्यैः, तथाच तत्त्वतो जिनप्रणीतानुसारितत्त्वप्रथनपरतां तेषां निदर्य तदनुसारिणां तत्त्वपथेऽवतारण HUSASSARICHISCHIQISHIGAICAPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1929