SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्योपक्रमः। इह हि मनीषिणाऽवाप्तविवेकेनावेक्ष्य चातुर्गतिकसंसारस्य दुःखबहुलतां तदुच्छेदाय यतितव्यमेवेति विवादशून्यो मार्ग आस्तिकानां, तथापि तत्र तत्रास्तिकशास्त्रेषु तदुच्छेदमार्गस्य नानात्वमवेक्ष्यानिपुणमतीनां स्यादेवाबाधितेऽपि तदुच्छेदोपाये प्रवृत्तिव्याघातकारिण्यारेकेति न नूतनं, प्रेक्ष्य चेदं जगद्वृत्तं श्रीमन्तो हरिभद्रसूरयो विधायाप्यनेकानि नन्द्यनुयोगद्वारावश्यकजीवाभिगमप्रज्ञापनागमवृत्तीः निर्माय निर्मायं | पञ्चाशकपञ्चवस्तुषोडशकाष्टकविंशिकादीनि असाधारणानि विधिप्रकरणानि शास्त्राणि धर्मसंग्रहणीललितविस्तरानेकान्तजयपताकादीनि चान्य यूथीयमतखंडननिपुणानि विरचय्य सर्वपार्षदं शास्त्रं रचयितुकामाः प्राक् तत्तदर्शनमतपदार्थमात्रप्रतिपादनपरं षड्दर्शनसमुच्चयलोकतत्त्वनिर्णयौ विनिर्माय निखिलमतैदम्पर्यदर्शनपुरस्सरंतत्तन्मतपरीक्षापरं निबंधमेनं शास्त्रवार्तासमुच्चयाख्यमनुपममातेनुः, तथाच यथा षड्दर्शन समुञ्चयस्य समुच्चयपदाङ्कितत्वेन सर्वदर्शनप्रतिपादकता तथाऽस्यापि सर्वयूथीयशास्त्रैदम्पर्यप्रतिपादकता स्पष्टैव, सति चैवं योगदृष्टियोग| बिन्द्वादिवद् यदन परतीर्थप्रवर्तकानां तदनुसारिणां च यद्बहुमानवाचकं पदादि तन्न श्रीमतां सम्यक्त्वमालिन्यापादकं न चेतरेषामतथाविधानामनुकरणीयं, स्पष्टीकृतं चेदं तत्त्वं श्रीमद्भिरीश्वरवादे 'यतः केषांचिदादरः। अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥ २०६॥ सांख्यवाद च 'मूर्तयाऽप्यात्मनो योगो० ॥ २३६ ॥ एवं प्रकृतिवादोऽपि, विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव, दिव्यो हि स महामुनिः ॥ २३७ ॥ इत्यादिवाक्यैः, तथाच तत्त्वतो जिनप्रणीतानुसारितत्त्वप्रथनपरतां तेषां निदर्य तदनुसारिणां तत्त्वपथेऽवतारण HUSASSARICHISCHIQISHIGAICA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy