Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
विषयानुक्रमणिकाअङ्काः
विषयाः
पत्र-पती १०० चेतनाया भूतातिरिक्तधर्मत्वव्यपस्थापनेन तदाधारतयाऽतिरिक्तात्मसिद्धिरुपवर्णिता।
४४-२७ १०१ चेतनाऽऽत्मधर्मत्वसाधकहेतु विपक्षवृत्तित्वबाधकतर्कोपदर्शकं द्वा
त्रिंशत्तमपद्यं, तत्र चेतनाया भूतधर्मत्वे भूतेषु प्रत्येकं सर्वदा
चैतन्योपलब्धिः स्यात् सत्त्वकठिनत्वादिवदिति तर्क उपदर्शितः। ४५-१६ १०२ उक्तदोषपरिहारस्य चार्वाकाभिप्रेतस्य प्रतिक्षेपपरं त्रयस्त्रिंशत्तमपद्यं,
तत्रासंहतावस्थायां भूतेषु शक्तिरूपेण चेतना सत्यपि नोपलभ्यते इत्याकूतं न युक्तमित्यर्थः ।
४६-५ १०३ तत्र हेतूपदर्शकं चतुस्त्रिंशत्तमपद्यम् , तत्र शक्तिचैतन्ययोरैक्यनानात्वे विकल्प्य दूषिते।।
४६-१९ १०४ पूर्वावस्थायां निर्विकल्पकैकवेद्या चेतनाऽस्त्येव, तस्या व्यक्तचेतना
जनकतारूपा शक्तिः स्वाभिन्नव्यक्तिरूपाऽस्ति, तद्रूपेण सा पूर्व न
सविकल्पकविषय इति नोक्तानिष्टप्रसङ्ग इति प्रश्नप्रतिविधानम् । ४७-६ १०५ तत्त्वसंख्याविरोधेन भूतव्यतिरिक्तावरकाभावात् प्रत्येकावस्थाया
मनभिव्यक्ता चैतनैव शक्तिरिति वक्तुं न युज्यत इत्युपपादकं पञ्चत्रिंशत्तमपद्यम् ।
४७-२० १०६ भूतानां भूतत्वेन पृथिवीत्यादिना वा व्यञ्जकानामावरकत्वं न
सम्भवतीत्युपदर्शकं षट्त्रिंशत्तमपद्यम् । १०७ कायाकारपरिणतभूतानां चेतनाभिव्यञ्जकत्वं कायाकारपरिणामा- भावस्यावरकत्वमित्याशङ्काप्रतिक्षेपकं सप्तत्रिंशत्तमपद्यम् । ४८-२४ १०८ तद्विवरणे अन्धकारस्य चक्षुष आवरकस्यापि तेजोऽभावरूपत्वेन
न भावत्वं तथा प्रकृतेऽपीति प्रश्नस्य प्रतिविधानम् । ४९-५ १०९ परिणामव्यञ्जकत्वप्रसङ्गस्योपपादनम्।
४९-११ ११० विशिष्टपरिणामस्य चैतन्याभिव्यञ्जकस्य भूताभिन्नत्वे सदा चैत
न्याभिव्यक्तिः स्यात् , भूतभिन्नत्वे तत्त्वसङ्ख्याहानिरित्युपदर्शकमष्टात्रिंशत्तमपद्यम् ।
४९-२० १११ चैतन्याभिव्यञ्जको भूतपरिणामः स्वकाले भूताभिन्न इत्युक्तिः
कालाभावान्न सङ्गता, लोकसिद्धकालाश्रयणे तु तथाऽऽत्माश्रयणं किन्नेत्युपदर्शकमेकोनचत्वारिंशत्तमपद्यम् ।
४८-८

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 300