Book Title: Shastra Sandeshmala Part 24
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाश्चात्र त्वन्ताथादी न पूर्वगौ ॥ २३ ॥ इति परिभाषा। अर्हन् जिनः पारगतस्त्रिकालवित् क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः । शंभुः स्वयंभूर्भगवान् जगत्प्रभु-स्तीर्थङ्करस्तीर्थकरो जिनेश्वरः।। २४ ।।। स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥ एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्तत: पद्मप्रभाभिधः ॥ २६ ॥ सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोनन्ततीर्थकृत् ॥ २७॥ धर्मः शान्तिः कुन्थुररो मलिश्च मुनिसुव्रतः । नमिर्नेमिः पाश्र्वो वीरश्चतुर्विंशतिरर्हताम् ऋषभो वृषभः श्रेयाश्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुव्रतौ तुल्यौ ॥ २९ ॥ अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः || ३० ।। गणा नवास्यर्षिसंघा एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः केवली चरमो जम्बूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः संभूतिविजयस्ततः ॥ ३३ ॥ ॥ २८ ॥ ॥ ३२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 438