Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society

Previous | Next

Page 6
________________ षड्दर्शनसमुच्चयः सटौकः । वाच्यस्वरूपं जिज्ञासून तत्तदीयग्रन्थविस्तरावधारणशक्रिविकलानां सकलानां विनेयानामनुग्रह विधित्सया स्वल्पग्रन्थं महार्थं सद्भूतनामान्वयं षड्दर्शनसमुच्चयं शास्त्रं प्रारभमाणः शास्त्रारम्भे मङ्गलाभिधेययोः साचादभिधानाय संबन्धप्रयोजनयोश्च संशूच - 5 नाय प्रथमं श्लोकमेनमाह ॥ सद्दर्शनं जिनं नत्वा वौरं स्याद्दाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥ १ ॥ सत् शश्वद्विद्यमानं छाद्मस्थिकज्ञानापेक्षया प्रशस्तं वा दर्शनमुपलब्धिर्ज्ञानं केवलाख्यं यस्य स सद्दर्शनः । अथवा सत्प्रशस्तं 10 दर्शनं केवलदर्शनं तदद्व्यभिचारित्वात्केवलज्ञानं च यस्य स सद्दर्शनः, सर्वज्ञ सर्वदर्शी चेत्यर्थः तम् । श्रनेन विशेषणेन श्रीवर्धमानस्य भगवतो ज्ञानातिशयमाविरबौभवत् । श्रथवा सदर्त्तितं सकलनरासुरामरेन्द्रादिभिरभ्यर्चितं दर्शनं मतं यस्य, स सद्दर्शनस्तम् । अनेन च तदीयदर्शनस्य त्रिभुवनपूज्यतामभिद15 धानः श्रीवर्धमानस्य त्रिभुवनविभोः सुतरां त्रिभुवनपूज्यतां व्यनक्तौति पूजातिशयं प्राचौकटत् । तथा जयति रागद्वेषादिशत्रूनिति जिनम् । श्रनेनापायापगमातिशयमुदवोभवत् ॥ तथा स्यात्कथंचित्सर्वदर्शनसंमत रुद्भूतव वंशानां मिथः सापेक्षतया वदनं स्याद्वादः । सदसन्नित्यानित्य सामान्यविशेषा20 भिलाप्यानभिलाप्योभयात्मानेकान्त दूत्यर्थः ॥ ननु कथं वर्बदर्शनानां परस्परविरुद्धभाषिणामभीष्टा वस्त्वंशाः मद्भूताः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 196