Book Title: Savruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(०४)
प्रत
सूत्रांक
[१५६
१५९]
गाथा:
१-९३
प्रत
अनुक्रम
[२५४
-३८३]
[भाग-७] “समवाय” – अंगसूत्र - ४ (मूलं + वृत्ति:) समवाय [प्रकिर्णका:], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
मूलं [१५६ से १५९ ] + ९३ गाथा:
नाऽस्ति शस्त्रपरिज्ञादिष्विवेति भावः, इतिशब्दः समाप्तौ 'नवीमी'ति किल सुधर्म्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, त्रवीमि - प्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानखामिनः समीपे यदवधारितमित्यनेन गुरुपारम्पर्यमर्थस्य प्रतिपादितं भवति, एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहतं, अयमेवार्थः शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् ॥
नमः श्रीवीराय प्रवरवरपाश्रय च नमो नमः श्री वाग्देव्यै वरकविसभाया अपि नमः ॥ नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो नमः सर्वस्मै च प्रकृतविधिसाहाय्यक कृते ॥ १ ॥ यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् ॥ तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुखात् खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः १ ॥ २ स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां व्याख्यानेऽस्य तथा विवेक्तमनसामल्पश्रुतानाममुम् ॥ इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः ॥ ३ ॥ इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात्, वचन तदवभासो यः स मान्द्यान्नृबुद्धेः । वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ॥ ४ ॥
For Pasta Use Only
~330~
yor

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338