Book Title: Saptanaya Vivaran Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ अनुसंधान - २१ |२| तथा तस्मिन्नेव वस्तुनि समकाले सामान्यविशेषावपि स्यातामिति तृतीय: १३) तथा वस्तुनि अवक्तव्यधर्मत्वं परमाणुरूपमस्तीति चतुर्थ : |४| तथाऽनुक्रमेणैव एकया विशेष (सामान्य) कल्पनया वस्तुस्वरूपं कथयितुमशक्यमतोऽवक्तव्यमिति पञ्चमः | ५ | तथाऽनुक्रमेणैकया विशेषकल्पनया वस्तुस्वरूपं कथयितुमशक्यत्वादवक्तव्यमिति षष्टः ६ तथा वस्तु युगपत् समकाले सामान्यविशेषत्वेन कथयितुमशक्यत्वादवक्तव्यमिति सप्तमः | ७| इति नैगमनयः ॥ ४ अथ संग्रहनयमाह सकलभुवनत्रयवर्तिकालत्रय भाविवस्तुकदम्बकस्य कथकः संग्रहः । तत्र दृष्टान्तो यथा - घटोऽनेकैर्नीलपीतादिभिर्वर्णैर्युतो व्यक्तिमानस्ति, तथापि सामान्यद्रव्येण स एव घट उच्यते । तथा श्वेतपीतरक्तकृष्णादिवर्णवती व्यक्तियुक्ता गौ: सास्नादिगोधर्मत्वेन सा गौरवाच्यते । तथा जातिगोत्र-वर्ण-रूप- संहनन संस्थानाऽवगाहनादिभेदभिन्ना अपि मनुष्या मनुष्यत्वधर्मेण सर्वे मनुष्याः । तथा घटघटीशरावाद्यनेकपर्यायाः सन्ति परं मृद्द्रव्यमेक (कं) एव । एवं सर्वत्र विचार्यम् । वस्तुतो यदविनाशिधर्म: ( 2 ) द्रव्यं तत्सामान्यद्रव्यं, न तु पर्यायः । पर्यायः समये समये विनश्यति । अत्र विशेषवादिभिर्बोद्धचार्वाकादिभिः सामान्यं नाङ्गीक्रियते । तै: शाश्वतं किमपि न मन्यते सर्वक्षणविनश्वरम् । सामान्याद् विशेषो भिन्नो वाऽभिन्नो वा ? | चेत् सामान्याद् भिन्नो विशेषः, तदा विशेषोऽवस्तुस्वभावो भविष्यति खरविषाणवत् वन्ध्यापुत्रवत् । सामान्यं वस्तु | स्थिरस्वभाव: सामान्याश्रितो विशेषः सर्ववस्तुपर्यायग्राहकः संग्रहः । इति संग्रहनयः || अथ व्यवहारनयः । येन सकललोकस्य प्रवृत्तिर्निवृत्तिर्वा जायते स व्यवहारः वस्तुपर्यायविशेषरूपो न तु सामान्यधर्म : । यथा जलार्थी पुमान् घटादिगवेषणं करोति, न तु मृद्रव्यस्य । ततो व्यवहारे विशेष एव उपकारी, न तु सामान्यम् । वस्तुधर्म एवं व्यवहारसाधकः । यतो विशेषं विना सामान्यं (न) भवति । " निर्विशेषं हि सामान्यं भवेत् शशविषाणवत्" । विशेषं बिना सामान्यं शशविषाणतुल्यमसदुक्तं तत् कथं कार्यसाधकं स्यात् ? मरुमरीचिकावत् असद्रूपत्वात् । व्यवहारनये विशेषपदार्थैः घटपटलकुटादिभिः प्रयोजनम् । इति व्यवहारनयः ॥ अथ ऋजुसूत्रनयः । ऋजुत्वेन - सरलत्वेन सामान्येन वस्तुपदार्थप्ररूपकः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9