Book Title: Saptanaya Vivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229304/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अज्ञातकर्तृक सप्तनयविवरण सं. विजयशीलचन्द्रसूरि 'नय' ए जैन दर्शननो पारिभाषिक शब्द छे. अनेक आयामो के अंशो के धर्मो धरावता पदार्थना कोई एक आयाम, अंश के धर्मनो बोध करावनार वचन ते नय. वधु व्यवहारु के सहेली रीते कहेवुं होय तो एम कही शकाय पदार्थने कोई एक ज दृष्टिकोणथी जोवा समजवानी प्रक्रिया ते नयवाद. बीजा दृष्टिकोणनो इन्कार न करे, परंतु तेनो स्वीकार पण न करे, अने पोताना दृष्टिकोणने यथार्थ माने तेनुं नाम नय. जैन दर्शने आवा मुख्य सात नय वर्णव्या छे, जेनां नामो क्रमश: १. नैगमनय, २. संग्रहनय, ३. व्यवहारनय, ४. ऋजुसूत्रनय, ५. शब्दनय, ६ एवंभूतनय, ७. समभिरूढनय छे. नय एटले दृष्टि, अने ते दृष्टिना भेदे जुदां जुदां दर्शनो रचायां छे, तेम जैन दर्शन माने छे. 'नयभेदे दर्शनभेद' ए आनो अर्थ छे, एम कही शकाय. ए रीते तमाम नयोनो एटले के दर्शनोनो समन्वित समूह ते जैन दर्शन एम पण मानी शकाय केमके जैन दर्शननो मुख्य सिद्धांत स्याद्वाद सिद्धान्त छे. स्याद्वाद एटले अनेकान्तवाद कोई पण एक ज नयनेदृष्टिकोणने ज सत्य मानवो अने बीजा बधा नयोनो- दृष्टिबिन्दुओनो इन्कार के निषेध करवो-ए छे एकान्तवाद अर्थात् एकान्तवाद एटले संकुचित के सीमित दर्शन. जैन दृष्टिए स्वीकारेलो अनेकान्तवाद आवी सीमामां बंधातो नथी. ते तो समग्र नयोने पोतामां समावे छे. आ नयोनुं स्वरूप अनेक ग्रंथोमां वर्णवायुं छे. छतां अध्ययन करता मुनिराजो के विद्यार्थीओ, क्यारेक पोताना तो कदीक अन्यना बोध खातर पोतानी शैलीमां आ पदार्थनुं वर्णन लखता रह्या छे. अत्रे प्रस्तुत थती लघु रचना ए आवो ज एक प्रयास लागे छे प्रतिपादन अने पूर्वापर संबंधनी दृष्टिए घणी शिथिलता जणाती होवाथी आ विवरण कोई विद्यार्थी मुनिए पोताना अभ्यास काळमां कर्तुं होय तो ते शक्य छे. तो अक्षरना मरोड तेमज नयस्वरूपनी चर्चानुं स्वरूप जोतां, आ लखाण उपाध्याय श्रीयशोविजयजीना हाथनुं के पछी तेमना प्रिय विद्यार्थी मुनि हेत (के हित ) विजयजीनुं होवानी Page #2 -------------------------------------------------------------------------- ________________ अनुसंधान-२१ संभावना पण जणाय छे. जो के कृतिना आरंभ के छेडे कर्तानों के लखनारनो कोई अछडतो पण इशारो तो नथी मळतो, तेथी आ संभावना प्रमाणभूत तो न गणाय, छतां अटकळ करी छे, ते अक्षरोना मरोडना बारीक निरीक्षण पछी ज. लेखनवर्ष न होवा छतां अनुमानत: १८मा सैकानी प्रति लागे छे. चार पत्रनी प्रति छे छेला पत्रमांना खाली भागमां साहित्यिक श्लोको ( थोडाक) लखेला छे. प्रति निजी संग्रहगत छे. नय-स्वरूप-वर्णनमां क्यां वैविध्य छे ते तो सुज्ञ जाणकारने वांचन करती वेळा ज समजाइ जाय तेम छे, छेल्ली पुष्पिकामां 'इति सप्तनयविवरणं चूर्णं विहितं' ए वाक्यथी, एकदम सुगम अने बालभोग्य रीते नयवर्णन करवानुं कर्तुं होवानुं लेखकना मनमां हशे ते स्पष्ट थई जाय छे. 5 O सप्तनयविवरणं चूर्णम् ॥ स्यात्कारमुद्रिता भावा नित्यानित्यस्वभावकाः । प्रोक्ता येन प्रबोधाय वन्दे तं वृषभं जिनम् ॥१॥ अनन्तधर्मात्मकस्य वस्तुन एकांशव्यवसायात्मकं ज्ञानं नयः [ श्रीसर्वज्ञमते सकलवस्तु अनन्तवर्णात्मकं वर्णितमस्ति, मयूराण्डवत् । यथा मयूराण्डमध्ये नानावर्णत्वमस्ति तदा मयूरे जाते तत्पक्षादौ नानावर्णत्वं भवति । असत् किमपि नोत्पद्यते, आकाशकुसुमवत् । यत् सत् तदेव प्रादुर्भवति । यदा मृत्पिण्डे घट-घटी - शराव - उदञ्चनादीनां सत्ताऽस्ति तदा मृत्पिण्डे ते ते घटादिपर्यायाः समुत्पद्यन्ते । ननु अनन्तधर्मत्वं वस्तुन्यस्ति तर्हि वस्तु एकधर्मत्वेन कथमुच्यते ? | सत्यम् । अनन्तधर्मत्वं वस्तुनि सत्ताऽस्ति, परमेकस्मिन् काले वस्तुन: परिणामा: संख्येया असंख्येयाश्च भवन्ति । यथा यस्मिन् काले यः परिणामोऽस्ति तस्मिन् काले स एव भवति, नापर: । " यद् द्रव्यं यदा येन रूपेण परिणतं तदा तेनैव रूपेण परिणमति, न तु रूपान्तरेण" इति वचनात् । यथार्थ (र्थः) प्रमाणमित्युच्यते । अयथार्थ (र्थो) अ (5) प्रमाणमिति । नयः Page #3 -------------------------------------------------------------------------- ________________ ओक्टोबर २००२ प्रमाणस्यैकांशः । यत: नाऽप्रमाणं प्रमाणं वा प्रमाणांशस्तथैव हि । नाऽसमुद्रः समुद्रो वा समुद्रांशो यथैव हि ।। समस्तांशस्थानं प्रमाणं, तदेकांशो नयः । प्रमाणनयैः सकलभावाभिगमो भवति । नयाः सप्त । नै(ने)गम १ संग्रह २ ववहार ३ उज्जुसुए ४ चेव होइ बोधव्वे । सद्दे य ५ समभिरूढे ६ एवंभूते ७ य मूलनया ।। ___ अथ नैगमार्थमाह- समस्तवस्तु सामान्येन विशेषेण च मन्यते, न केवलं सामान्येन न केवलं विशेषेण, उभाभ्यां प्रकाशनाभ्यां मन्यते नैगमः । सकलभुवनत्रयमध्यवर्तिवस्तुकदम्बकस्य ग्राहक: स सामान्यधर्म : एक एव । शैवन्यायशास्त्रेऽप्युक्तमस्ति "नित्यमेकमनेकवृत्ति सामान्यम् । तथाहिघटत्वपटत्वमनुष्यत्वाः ।" तथा जैनन्यायशास्त्रेऽपि सामान्यलक्षणं - "अप्रच्युतानुत्पन्नस्थिरैकरूपं हि सामान्यं द्रव्यं शाश्वतिकम् ।" यथा मृत्तिकापर्याया घटशरा[वा]दयः उत्पादविनाशधर्माः, तैः कृत्वा सामान्यद्रव्यमस्थिरमस्ति, अनेकरूपतां भजति । अथ विशेषलक्षणं-शैवनये सामान्यव्यातिधर्माणो हि विशेषाः । जैननये विशेषलक्षणं पूर्वपूर्वाकारपरित्यागोत्तरोत्तरपरिस्फूतिमन्तो हि विशेषाः । पर्यायापरनामानः ते घटपटलकुटमुकुटादयः तथा नरनारक सुरादयः । सामान्यविशेषवस्तुस्वरूपप्ररूपको नैगमनयः ।। जैन अपि वस्तुनि धर्मद्वयं मन्यन्ते सामान्यं विशेषश्च । सामान्य विना विशेषो न स्यात्, विशेषं विना सामान्यं न स्यात् । "निर्विशेष हि सामान्यं भवेत् शशविषाणवत्" इति वचनात् ॥ सामान्यविशेषसप्तभङ्गी वस्तु स्यात् सामान्यं १, स्यादवक्तव्यं ४, स्याद् विशेषं २, स्यादवक्तव्यं क्रमतः सामान्यकल्पनया ५, स्यात् सामान्यविशेषं ३, स्यादवक्तव्यं क्रमतो विशेषकल्पनया ६, स्यादवक्तव्यं युगपत् सामान्य विशेष कल्पनया ७ इति । वस्तुनि कथञ्चित् प्रकारेण सामान्यद्रव्यधर्मत्वमस्तीति प्रथम भङ्गार्थः ।१। तथा तस्मिन्नेव वस्तुनि कथञ्चित् प्रकारेण विशेषधर्मपर्यायोऽपि स्यादिति द्वितीयः Page #4 -------------------------------------------------------------------------- ________________ अनुसंधान - २१ |२| तथा तस्मिन्नेव वस्तुनि समकाले सामान्यविशेषावपि स्यातामिति तृतीय: १३) तथा वस्तुनि अवक्तव्यधर्मत्वं परमाणुरूपमस्तीति चतुर्थ : |४| तथाऽनुक्रमेणैव एकया विशेष (सामान्य) कल्पनया वस्तुस्वरूपं कथयितुमशक्यमतोऽवक्तव्यमिति पञ्चमः | ५ | तथाऽनुक्रमेणैकया विशेषकल्पनया वस्तुस्वरूपं कथयितुमशक्यत्वादवक्तव्यमिति षष्टः ६ तथा वस्तु युगपत् समकाले सामान्यविशेषत्वेन कथयितुमशक्यत्वादवक्तव्यमिति सप्तमः | ७| इति नैगमनयः ॥ ४ अथ संग्रहनयमाह सकलभुवनत्रयवर्तिकालत्रय भाविवस्तुकदम्बकस्य कथकः संग्रहः । तत्र दृष्टान्तो यथा - घटोऽनेकैर्नीलपीतादिभिर्वर्णैर्युतो व्यक्तिमानस्ति, तथापि सामान्यद्रव्येण स एव घट उच्यते । तथा श्वेतपीतरक्तकृष्णादिवर्णवती व्यक्तियुक्ता गौ: सास्नादिगोधर्मत्वेन सा गौरवाच्यते । तथा जातिगोत्र-वर्ण-रूप- संहनन संस्थानाऽवगाहनादिभेदभिन्ना अपि मनुष्या मनुष्यत्वधर्मेण सर्वे मनुष्याः । तथा घटघटीशरावाद्यनेकपर्यायाः सन्ति परं मृद्द्रव्यमेक (कं) एव । एवं सर्वत्र विचार्यम् । वस्तुतो यदविनाशिधर्म: ( 2 ) द्रव्यं तत्सामान्यद्रव्यं, न तु पर्यायः । पर्यायः समये समये विनश्यति । अत्र विशेषवादिभिर्बोद्धचार्वाकादिभिः सामान्यं नाङ्गीक्रियते । तै: शाश्वतं किमपि न मन्यते सर्वक्षणविनश्वरम् । सामान्याद् विशेषो भिन्नो वाऽभिन्नो वा ? | चेत् सामान्याद् भिन्नो विशेषः, तदा विशेषोऽवस्तुस्वभावो भविष्यति खरविषाणवत् वन्ध्यापुत्रवत् । सामान्यं वस्तु | स्थिरस्वभाव: सामान्याश्रितो विशेषः सर्ववस्तुपर्यायग्राहकः संग्रहः । इति संग्रहनयः || अथ व्यवहारनयः । येन सकललोकस्य प्रवृत्तिर्निवृत्तिर्वा जायते स व्यवहारः वस्तुपर्यायविशेषरूपो न तु सामान्यधर्म : । यथा जलार्थी पुमान् घटादिगवेषणं करोति, न तु मृद्रव्यस्य । ततो व्यवहारे विशेष एव उपकारी, न तु सामान्यम् । वस्तुधर्म एवं व्यवहारसाधकः । यतो विशेषं विना सामान्यं (न) भवति । " निर्विशेषं हि सामान्यं भवेत् शशविषाणवत्" । विशेषं बिना सामान्यं शशविषाणतुल्यमसदुक्तं तत् कथं कार्यसाधकं स्यात् ? मरुमरीचिकावत् असद्रूपत्वात् । व्यवहारनये विशेषपदार्थैः घटपटलकुटादिभिः प्रयोजनम् । इति व्यवहारनयः ॥ अथ ऋजुसूत्रनयः । ऋजुत्वेन - सरलत्वेन सामान्येन वस्तुपदार्थप्ररूपकः Page #5 -------------------------------------------------------------------------- ________________ ऑक्टोबर २००२ ऋजुनयः । ऋजु-वर्तमानकालीनाः पर्यायाः वर्तमानसमयानुकूलाः पर्याया: स्वकीया न परकीयास्तान् कथयति इति ऋजुसूत्रार्थ : । तथा ऋजुसूत्रनयो लिङ्गवचनाद्यभेदेन समस्तवस्तु कथयति । अत ऋजुसूत्रनयो लिङ्गवचनभेदं न मन्यते । तथा निक्षेपचतुष्टयं मन्यते नाम १ स्थापना २ द्रव्य ३ भाव ४ रूपम् । ऋजुसूत्रनयो वर्तमानसमयग्राही न तु योग्यायोग्यशब्दग्राही । इति ऋजुसूत्रनयः ॥ अथ शब्दनयः । भाषावर्गणापुद्गलरूपः शब्दनयः तेन शब्देन कृत्वा पदार्थस्य वाच्यवाचकताभावसंयुक्तः क्रियते । तथा पूर्वं शब्दः पश्चादोंऽतो(त:)शब्दो(ब्द)प्राधान्यं तत: शब्दनयः, नार्थनयः । अयमपि नयो वर्तमानपर्यायग्राही । ऋजुसूत्रनयापेक्षयाऽयं शुद्धः, तत् कथम् ? । स तु लिङ्गवचनशून्यं सामान्यं वस्तु कथयति, अयं तु शब्दनयो लिङ्गवचनयुक्तं कथयति । यथा पुरुषः स्त्री ज्ञानम् । पुरुषः पुरुषौ पुरुषाः ३, स्त्री स्त्रियौ स्त्रिय: ३, ज्ञानं ज्ञानं ज्ञानानि ३ । सर्ववस्तुपदार्थलिङ्गवचनादिविशेषवाचकः शब्दनयः । इति शब्दनयः ।। अथ समभिरूढनयार्थः । तल्लक्षणं - यावन्तो नामपर्यायशब्दाः सन्ति तावन्तः सर्वेऽपि व्युत्पत्त्या भिन्नभिन्नार्थप्रकाशकाः । यथा इन्द्रनामानि बहूनि सन्ति इन्द्रः शक्रः पुरन्दरः शचीपतिरित्यादिसर्वाण्यपीन्द्राश्रितानि, परं व्युत्पत्त्या भिन्नार्थानि । यथा- इन्दति परमैश्वर्यत्वं(य) प्राप्नोति इन्द्रः । शक्नोतीति शकः । शक्तिमान् शक्रः । पुरं पुरनामानमसुरं दैत्यं दारयति पुरन्दरः । शच्याः पतिः शचीपतिः । एवं यावन्तो जगति नामपर्याया जीवाजीवाश्रिताः सन्ति ते सर्वेऽपि व्युत्पत्त्या भिन्नाभिधेयाः । तेषु एकार्थता मन्यते तदा अतिप्रसङ्गदोषः । यत: विजातीयेषु शब्देषु एकार्थप्रसञ्जनमतिप्रसङ्गदोषः । परस्परभिन्नार्थानामेकत्रावसानं संकरदोषः । इति समभिरूढनयः ॥ अथ एवंभूतनयः । व्युत्पत्तितुल्यार्थनाम वक्तीति एवंभूतनयः । यथा मंग्यते दुरितोपशान्त्यै जनैरिति मङ्गलम् । तीर्थ करोतीति तीर्थंकरः । वेवेष्टि विश्वमिति विष्णुः । शक्नोतीति शक्रः । वज्रमस्यास्तीति वज्री, नान्यः । सहस्रमक्षीणि यस्य स एवं सहस्राक्षः, नान्य इत्यादि । इति एवंभूतनयः ।। इति सप्त नयाः ।। Page #6 -------------------------------------------------------------------------- ________________ अनुसंधान-२१ एतेषां सप्तनयानां मध्ये आद्याश्चत्वारो नया अर्थप्रधानत्वादर्थनयाः । अग्रेतनास्त्रयो नयाः शब्दप्रधानत्वात् शब्दनयाः । आद्यास्त्रयो द्रव्यास्तिकनया: न तु पर्यायान् मन्यन्ते, शेषाश्चत्वारः पर्यायास्तिकनयाः पर्यायान् मन्यन्ते, न तु द्रव्यम् । ६ एतेषां सप्तानां नयानां मध्ये एकं नयं यो मन्यते स दुर्णयवादी 1 सर्वान् नयान् मन्यते स सुनयवादी । सप्तनय पञ्चसमवायान् मन्यते स स्याद्वादवादी । य एकान्तवादी न स जैनमती । बौद्ध १ नैयायिक २ सांख्य ३ मीमांसक ४ चार्वाका: ५ । पञ्चैते एकान्तवादिनः || बौद्धा: क्षणिकवादिन: १। नैयायिकाः कर्तृवादिनः २ । सांख्या: प्रकृतिवादिनः ३ । मीमांसकाः कर्मवादिनः ४ | चार्वाका नास्तिकवादिन: ५ । एषां भेदा भूयांसः सन्ति इत्येवंभूतनयः ॥ अथ सप्तनया: (यान्) प्रस्थक १ वसति २ प्रदेशादिदृष्टान्तत्रयेण कथयति । तत्र प्रस्थकदृष्टान्तेन सप्त नया [न् ] विवृणोति । प्रस्थको मानविशेष: मगधदेशे प्रसिद्धः । कश्चित् सूत्रधारः प्रस्थककाष्ठच्छे (ष्ठं छेत्तुं याति । केनापि 'क्व यासि ?', तदाऽशुद्धनैगमनयीभूत्वा तेनोक्तं 'प्रस्थकं छेत्तुं यामि' । अत्र बहवो गमा भासन्ते । तावत् काष्टमपि न च्छेदितमस्ति तर्हि क्व प्रस्थक: ? । प्रस्थकस्यान्तराले भूयांसो व्यवसाया भविष्यन्ति तदनु प्रस्थको भविष्यति । तथापि कारणे कार्योपचारः । स्यादेव काष्टं कारणं, प्रस्थकः कार्यं, 'भाविनि भूतोपचार' इति नैगमवचनम् । सूत्रधारे काष्टे छेत्तुं प्रवृत्ते सति केनापि पृष्टं 'किं करोषि ?' । स प्राह- 'प्रस्थकं छिनद्मि' । पूर्वनैगमवचनापेक्षया किञ्चिदिदं शुद्धम् । शस्त्रेण घटित्वा काष्टं प्रस्थाकारं कृतं तदा केनापि पृष्टं 'त्वं किं करोषि ?' | तेनोक्तं 'प्रस्थं करोमि' । पूर्वोक्तवचनादिदं शुद्धवचनम् । पूर्ववचनादुत्तरोत्तरवचनं शुद्धं, यावत् प्रस्थको न भवति तावत् सर्वाण्यपि वचनानि नैगमनयस्य ज्ञातव्यानि । व्यवहारनय- नैगमनययोः साम्यं वचनैरिति । I अथ संग्रहनयवचनं यथा - स प्रस्थकः परिपूर्णो निष्पन्नः कण्ठपर्यन्तं धान्यभृतो धान्यविभजनं करोति तदा प्रतिप्रस्थकं कथयति संग्रहनयः । नान्यथा । नैगम-व्यवहारनयौ कारणे कार्यं मन्येते संग्रहनयस्तु कारणे कार्य न मन्यते. 1 Page #7 -------------------------------------------------------------------------- ________________ ऑक्टोबर २००२ केवलं निष्पन्नकार्यमेव मन्यते । नैगम-व्यवहारौ अविशुद्धी, तदपेक्षया संग्रहनयः I शुद्धः । इति संग्रहनयः | ३ अथ ऋजुनयवचनं यथा केवलं धान्यमापहेतुभूतं मानविशेष: स एव प्रस्थको नान्यः । ऋजुनयो वर्तमानसमयग्राही, अतः संग्रहनयात् शुद्धः । संग्रहस्तु प्रस्थकमेयधान्यपुञ्ज - धान्यभृतप्रस्थक इत्यादिसमुदायस्य प्रस्थक: (कं) कथयति । एते शब्दादित्रयो नयाः शब्दस्य प्राधान्यं मन्यन्ते ते ( ? ) न त्वर्थस्य, अत एते [ शब्द ] नयाः । 1 ७ यत्र शब्दव्यवस्था तत्रैवार्थो वाच्यः । तर्हि प्रस्थकस्यावस्था प्रस्थकस्य ज्ञानोपयोगवति पुरुषे स्थिताऽस्थिता तर्हि स पुरुष एव प्रस्थको नान्यः । यो यादृशे यादृशे उपयोगे प्राणी वर्तते स तदुपयोगवान् कथ्यते । यथा रागोपयोगे वर्तते इति रो (रा) गो, द्वेषोपयोगे वर्तते इति द्वेषी । तथा प्रस्थकस्योपयोगो यस्मिन् स नरः प्रस्थक उच्यते, 'प्रस्थकोपयोगयुक्तः प्रस्थक' इति श्रीहेमचन्द्राचार्याः । शब्दादिभिस्त्रिभिर्नयैः प्रस्थकोपयोगी नर एव प्रस्थको मन्यते, न त्वनुपयोगी । काष्टभाजनस्य प्रस्थकस्य यद् ज्ञानं तत् पुरुषे एवास्ति, न तु काष्टे, अचेतनत्वात् । इति प्रस्थकदृष्टान्ते सप्तनयभावना ॥ अथ वसतिदृष्टान्ते सप्त नयान् दर्शयति । त ( य ) था - केनापि वैदेशिकपुरुषेण पाटलिपुत्रवास्तव्यनरः पृष्टः 'त्वं क्व वससि ?' | तेनोक्तं 'लोकमध्ये' । अय-(इद) मविशुद्धनैगमवचनम् । 'लोकस्तु चतुर्दशरज्जुप्रमाणो न ज्ञायते, त्वं क्व वससि ?' । तदा तेनोक्तं 'तिर्यग्लोके वसामि' । प्रथमवचनात् किञ्चिद् विशुद्धमिदं लोकद्वयपरित्यागात् । पुनः पृष्टं 'तिर्यग्लोके क्व वससि ?' । तेनोक्तं 'जम्बूद्वीपे' । पूर्ववचनापेक्षयेदं शुद्धम् । पुनः पृष्टं 'व वससि ?' | 'भरतेक्षेत्रे' । पूर्वोक्तादिदं शुद्धम् । पुनः पृष्टं 'क्व वससि ?' | 'मगधदेशे' । चतुर्थात् पञ्चमः शुद्धः, चतुर्थमध्ये द्वात्रिंशत्सहस्रदेशावभासनास्ति, पञ्चमे एक एव देशों मगध इति भासति (ते) नान्यः । पुनः पृष्टं 'क्व वससि ?' । तेनोक्तं 'पाटलिपुत्रनाम्नि नगरे' । पञ्चमादयं षष्ठः शुद्धः । मगधदेशस्थ - सकलग्रामपरित्यागात् । पुनरुक्तं- 'पाटलिपुत्रे वससि, परं क्व वससि ?' तेनोक्तं 'देवदत्तस्य पाटके' । षष्ठात् सप्तमः शुद्धः सकलपाटकभ्रान्तेरभावात् । पुनरुक्तं 'देवदत्तस्य पाटके वससि, परं कीदृशे गृहे ?' । तेनोक्तं 'पूर्वाभिमुख Page #8 -------------------------------------------------------------------------- ________________ अनुसंधान - २१ प्रशस्तकमलादिचित्रोपलक्षितः रुचिरेणोपशोभितः प्रशस्तस्तु नूतनकपाटयुक्ते रम्योन्नतगवाक्षलक्ष्ये ईदृशे गृहेऽहं वसामि । एषो (ष) षष्ठो (?) नैगमनयः सप्तम (?) नैगमाच्छुद्धः । इति नैगमः ||१|| ८ नैगम-व्यवहारयोर्वचनं (न) साम्यं न भिन्नत्वम् ॥२॥ अथ संग्रहनय उच्यते । यदा स पुरुष आसनादौ उपविष्टो भवेत् तदैव तत्र वसतीति मन्यते संग्रहनयो, नान्यथा । चलनादिक्रियायुक्तो नरो न तत्र वसतीति मन्यते संग्रहः । इत्थं सर्वत्र विचार्य, इति संग्रह: ३ || अथ ऋजुनयः । आसेन (आसने) आकाशप्रदेशा बहु ( बहव:) सन्ति, न तत्र वसति सर्वत्र । किन्तु यावत आकाशप्रदेशान् अवरुध्योपवे (वि) ष्टो नरः स तत्रैव वसति नान्यत्र, वर्तमानसमये वसति नान्यस्मिन् समये । एवं सर्वत्र ज्ञेयम् ४॥ अथ शब्दादिनयत्रयं कथयति - 'सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्तेऽधिकरणे' इति वचनात् सर्वोऽपि पुरुषार्थपदार्थे स्वस्वरूपे स्वस्वभावे वसति, न तु परस्वभावे आकाशप्रदेशे । इति त्रसतिदृष्टान्तः ॥ अथ प्रदेशदृष्टान्ते सप्तनयान् अवतारयति । क्वचिद् विद्वज्जनमण्डल्यां प्रदेशप्रवृत्तौ जायमानायां सत्यां केनापि पृष्टं 'कस्य प्रदेश: ?' । तदैकः कश्चित् पण्डितो नैगमनयमवलम्ब्य वक्तीदं- धर्मास्तिकाय १ अधर्मास्तिकाय २ आकाशास्तिकाय३ जीवास्तिकाय४ पुद्गलास्तिकाय ५ देश: ६ । सकलद्रव्यस्य कल्पनया विवक्षितः कियान् अंशो भागो देशः उच्यते । एतेषां पूर्वोक्तानां षण्णां प्रदेशः इत्य ( ति व ? ) वक्तव्यं नैगमवचने । अथ संग्रहो वक्ति अरे नैगम ! मैवं वद । षण्णां प्रदेशो न किन्तु पञ्चानाम् । धर्मास्तिकायादीनां प्रदेशोऽस्ति, न तु देशस्य प्रदेश: । द्रव्यस्य एकांशी देशः, न तु द्रव्याद् भिन्नो देश इति ॥ २ अथ व्यवहारनयो ब्रूते - अरे संग्रह ! मेत्थं ब्रूहि पञ्चानां धर्मास्तिकाया दीनां प्रदेशः । पञ्चानां तदोच्यते यदा पञ्चानां साधारणो भवति पञ्चभ्रातृनिधानवत् । इत्थं वद- पञ्चविधः प्रदेश: धमांस्तिकायादीनां पञ्चविधत्वात् इति ॥३ अथ ऋजुसूत्र वक्ति अरे व्यवहार ! मैवं भण यत् पञ्चविधः . Page #9 -------------------------------------------------------------------------- ________________ ऑक्टोबर 2002 प्रदेशः / प्रदेशस्तु पञ्चास्तिकायविषयेऽस्ति / प्रदेश प्रदेशे यदि पञ्चविधत्वमुच्यते तदा पञ्चविंशतिप्रदेशाः स्युः / अतो भाज्यप्रदेशान् वद - एकस्मिन् प्रदेशे पञ्च विकल्पाः सन्ति - अयं धर्मास्तिकायप्रदेश: 1 किंवा अधर्मास्तिकायप्रदेश: 2 किंवा आकाशास्तिकायप्रदेशः 3 उत जीवास्तिकायप्रदेशः 4 किंवा पुगलास्तिकायप्रदेशः 5, एवं पञ्च विकल्पान् ऋजुसूयनयो वक्ति / 4 __अथ शब्दनयो वक्ति - हे ऋजुनय ! त्वं भाज्यप्रदेशं मा वद / एवं उच्यमाने एकस्मिन् प्रदेशे पञ्चानामपि धर्मास्तिकायादीनां भजना भविष्यति, पञ्चपुरुषसेवकवत् / कदाचिदधर्मास्तिकायस्य प्रदेशो भवति, एवं पञ्चानामपि भजना स्यात् प्रदेशस्य / अत एवं वद - धर्मप्रदेशः 1, अधर्मप्रदेशः 2, आकाशप्रदेशः 3, जीवप्रदेश: 4, पुद्गलादेशः 5, एतेषां पञ्चानां मध्ये एकतमस्य प्रदेश इति 5 अथ समभिरूढनयो वक्ति - धर्मप्रदेश इत्येवमुच्यमाने समासद्वयातिव्याप्तिर्भवति तत्पुरुष: कर्मधारयश्च / तत्पुरुषे क्रियमाणे धर्म प्रदेशः, अत्र धर्म-प्रदेशयो.क्यं, धर्मात् प्रदेशो भिन्नः प्रदेशाद्धर्मो भिन्न:, 'भेदे तत्पुरुष' इति वचनात् / अतोऽत्र कर्मधारयः कर्तव्यः / धर्मश्चासौं प्रदेशश्च धर्मप्रदेशः / अस्मिन् समासे धर्मद्रव्य-प्रदेशयोरक्यं, न भिन्नत्वं, 'अभेदे कर्मधारय' इति वचनात् / 6 अथैवम्भूतनयो वक्ति- हे समभिरूढनय ! त्वं धर्मास्तिकायादिषु देश-प्रदेशौ कल्पनया मन्यसे, तदुक्तं (तदयुक्तं ?) यत: देशप्रदेशौ धर्मास्तिकाया दिस्कन्धादभिन्नौ, देश-प्रदेश-स्कन्धानामैक्यमेव कल्पनया, भिन्नत्वमस्ति तर्हि कल्पनया कि प्रयोजनं? / समस्तस्कन्धरूपो धर्मास्तिकायः स एव धर्मास्तिकाय उच्यते, न तु देश-प्रदेशौ / एवं सर्वत्राऽ धर्मास्तिकायादिषु ज्ञेयम् / इत्येवम्भूतनयवचनम् 7 इति प्रदेशदृष्टान्तः // सप्तनयज्ञो जिनोक्तसिद्धान्ताधिकारी, नान्यः / / नयानां किल सप्तानामा दृष्टान्तपूर्वकाः / / लिखिताः संस्कृतरूपेण स्वात्मनः परहेतवे / / एते सप्त नया मिथ्यादृष्टिभिर्न मन्यते(न्ते) // इति सप्तनयविवरणं चूर्ण विहितम् //