________________
ऑक्टोबर २००२
ऋजुनयः । ऋजु-वर्तमानकालीनाः पर्यायाः वर्तमानसमयानुकूलाः पर्याया: स्वकीया न परकीयास्तान् कथयति इति ऋजुसूत्रार्थ : । तथा ऋजुसूत्रनयो लिङ्गवचनाद्यभेदेन समस्तवस्तु कथयति । अत ऋजुसूत्रनयो लिङ्गवचनभेदं न मन्यते । तथा निक्षेपचतुष्टयं मन्यते नाम १ स्थापना २ द्रव्य ३ भाव ४ रूपम् । ऋजुसूत्रनयो वर्तमानसमयग्राही न तु योग्यायोग्यशब्दग्राही । इति ऋजुसूत्रनयः ॥
अथ शब्दनयः । भाषावर्गणापुद्गलरूपः शब्दनयः तेन शब्देन कृत्वा पदार्थस्य वाच्यवाचकताभावसंयुक्तः क्रियते । तथा पूर्वं शब्दः पश्चादोंऽतो(त:)शब्दो(ब्द)प्राधान्यं तत: शब्दनयः, नार्थनयः । अयमपि नयो वर्तमानपर्यायग्राही । ऋजुसूत्रनयापेक्षयाऽयं शुद्धः, तत् कथम् ? । स तु लिङ्गवचनशून्यं सामान्यं वस्तु कथयति, अयं तु शब्दनयो लिङ्गवचनयुक्तं कथयति । यथा पुरुषः स्त्री ज्ञानम् । पुरुषः पुरुषौ पुरुषाः ३, स्त्री स्त्रियौ स्त्रिय: ३, ज्ञानं ज्ञानं ज्ञानानि ३ । सर्ववस्तुपदार्थलिङ्गवचनादिविशेषवाचकः शब्दनयः । इति शब्दनयः ।।
अथ समभिरूढनयार्थः । तल्लक्षणं - यावन्तो नामपर्यायशब्दाः सन्ति तावन्तः सर्वेऽपि व्युत्पत्त्या भिन्नभिन्नार्थप्रकाशकाः । यथा इन्द्रनामानि बहूनि सन्ति इन्द्रः शक्रः पुरन्दरः शचीपतिरित्यादिसर्वाण्यपीन्द्राश्रितानि, परं व्युत्पत्त्या भिन्नार्थानि । यथा- इन्दति परमैश्वर्यत्वं(य) प्राप्नोति इन्द्रः । शक्नोतीति शकः । शक्तिमान् शक्रः । पुरं पुरनामानमसुरं दैत्यं दारयति पुरन्दरः । शच्याः पतिः शचीपतिः । एवं यावन्तो जगति नामपर्याया जीवाजीवाश्रिताः सन्ति ते सर्वेऽपि व्युत्पत्त्या भिन्नाभिधेयाः । तेषु एकार्थता मन्यते तदा अतिप्रसङ्गदोषः । यत: विजातीयेषु शब्देषु एकार्थप्रसञ्जनमतिप्रसङ्गदोषः । परस्परभिन्नार्थानामेकत्रावसानं संकरदोषः । इति समभिरूढनयः ॥
अथ एवंभूतनयः । व्युत्पत्तितुल्यार्थनाम वक्तीति एवंभूतनयः । यथा मंग्यते दुरितोपशान्त्यै जनैरिति मङ्गलम् । तीर्थ करोतीति तीर्थंकरः । वेवेष्टि विश्वमिति विष्णुः । शक्नोतीति शक्रः । वज्रमस्यास्तीति वज्री, नान्यः । सहस्रमक्षीणि यस्य स एवं सहस्राक्षः, नान्य इत्यादि । इति एवंभूतनयः ।। इति सप्त नयाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org