________________
अनुसंधान-२१
एतेषां सप्तनयानां मध्ये आद्याश्चत्वारो नया अर्थप्रधानत्वादर्थनयाः । अग्रेतनास्त्रयो नयाः शब्दप्रधानत्वात् शब्दनयाः । आद्यास्त्रयो द्रव्यास्तिकनया: न तु पर्यायान् मन्यन्ते, शेषाश्चत्वारः पर्यायास्तिकनयाः पर्यायान् मन्यन्ते, न तु द्रव्यम् ।
६
एतेषां सप्तानां नयानां मध्ये एकं नयं यो मन्यते स दुर्णयवादी 1 सर्वान् नयान् मन्यते स सुनयवादी । सप्तनय पञ्चसमवायान् मन्यते स स्याद्वादवादी । य एकान्तवादी न स जैनमती । बौद्ध १ नैयायिक २ सांख्य ३ मीमांसक ४ चार्वाका: ५ । पञ्चैते एकान्तवादिनः || बौद्धा: क्षणिकवादिन: १। नैयायिकाः कर्तृवादिनः २ । सांख्या: प्रकृतिवादिनः ३ । मीमांसकाः कर्मवादिनः ४ | चार्वाका नास्तिकवादिन: ५ । एषां भेदा भूयांसः सन्ति इत्येवंभूतनयः ॥
अथ सप्तनया: (यान्) प्रस्थक १ वसति २ प्रदेशादिदृष्टान्तत्रयेण कथयति । तत्र प्रस्थकदृष्टान्तेन सप्त नया [न् ] विवृणोति । प्रस्थको मानविशेष: मगधदेशे प्रसिद्धः । कश्चित् सूत्रधारः प्रस्थककाष्ठच्छे (ष्ठं छेत्तुं याति । केनापि 'क्व यासि ?', तदाऽशुद्धनैगमनयीभूत्वा तेनोक्तं 'प्रस्थकं छेत्तुं यामि' । अत्र बहवो गमा भासन्ते । तावत् काष्टमपि न च्छेदितमस्ति तर्हि क्व प्रस्थक: ? । प्रस्थकस्यान्तराले भूयांसो व्यवसाया भविष्यन्ति तदनु प्रस्थको भविष्यति । तथापि कारणे कार्योपचारः । स्यादेव काष्टं कारणं, प्रस्थकः कार्यं, 'भाविनि भूतोपचार' इति नैगमवचनम् ।
सूत्रधारे काष्टे छेत्तुं प्रवृत्ते सति केनापि पृष्टं 'किं करोषि ?' । स प्राह- 'प्रस्थकं छिनद्मि' । पूर्वनैगमवचनापेक्षया किञ्चिदिदं शुद्धम् । शस्त्रेण घटित्वा काष्टं प्रस्थाकारं कृतं तदा केनापि पृष्टं 'त्वं किं करोषि ?' | तेनोक्तं 'प्रस्थं करोमि' । पूर्वोक्तवचनादिदं शुद्धवचनम् । पूर्ववचनादुत्तरोत्तरवचनं शुद्धं, यावत् प्रस्थको न भवति तावत् सर्वाण्यपि वचनानि नैगमनयस्य ज्ञातव्यानि । व्यवहारनय- नैगमनययोः साम्यं वचनैरिति ।
I
अथ संग्रहनयवचनं यथा - स प्रस्थकः परिपूर्णो निष्पन्नः कण्ठपर्यन्तं धान्यभृतो धान्यविभजनं करोति तदा प्रतिप्रस्थकं कथयति संग्रहनयः । नान्यथा । नैगम-व्यवहारनयौ कारणे कार्यं मन्येते संग्रहनयस्तु कारणे कार्य न मन्यते.
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org